________________
षोडशं ब्रह्मचर्यसमाधिस्थानाध्ययनम्
२३७ केवलिपण्णत्ताओ धम्माओ भंसिज्जा । तम्हा नो इत्थिपसुपंडगसंसत्ताई सयणासणाइं सेवित्ता हवइ से निग्गंथे ॥१॥
व्याख्या-निग्रन्थस्य खलु स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेवमानस्य, अपेर्गम्यत्वात् ब्रह्मचारिणोऽपि सतस्तस्य ब्रह्मचर्ये शङ्का, किमेताः सेवे उत न? अथवाऽन्येषां शङ्का स्यात् , यथा किमसावेवं शयनासनसेवी ब्रह्मचारी उत न ? यद्वा स्वस्य स्त्र्याद्यैर्गाढासक्तचित्ततया मिथ्यात्वोदयादेतत्सेवने जिनैर्यो दोष उक्तः स किं भविष्यतीत्येव संशयः शङ्का, काङ्क्षा स्त्र्यादीच्छा, विचिकित्सा किमेतत्कष्टफलं भावि न वा ? तद्वरमेतदासेवा । भेदं वा विनाशं चारित्रस्य लभेत, उन्मादं वा कामग्रहं प्राप्नुयात् , दीर्घकालिकं वा प्रभूतकालभाविरोगदाहज्वरादयस्तैरातन्कश्चाशुघाती शूलादिः, एवंविधं रोगातङ्कं भवेत् , स्त्र्यादीच्छाधिक्यादरोचकत्वं, ततश्च ज्वरादिः स्यात् । केवलिप्रज्ञप्ताद्धर्मात् श्रुतचारित्रात् समस्ताद् भ्रस्येत् कर्मोदयात् । यत एवं तस्मादित्यादिनिगमनवाक्यं, नो स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेवेतेति सूत्रार्थः, इत्युक्तं प्रथमं समाधिस्थानम् ॥१॥
अथ द्वितीयमाह
नो निग्गंथे इत्थीणं कहं कहित्ता हवइ, से निग्गंथे, तं कहमिति चे आयरियाह-निग्गंथस्स खलु इत्थीणं कहं कहेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जेज्जा, भेदं वा लभिज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं भविज्जा, केवलिपण्णत्ताओ धम्माओ भंसिज्जा, तम्हा खलु निग्गंथे नो इत्थीणं कहं कहेज्जा ॥२॥
व्याख्या-नो स्त्रीणामेकाकिनीनां कथां वाक्यप्रबन्धं, यद्वा स्त्रीणां कथा, यथा"कार्णाटी सुरतोपचारचतुरा लाटी विदग्धा प्रिया" । इत्याद्या, अथवा जातिकुलरूपनेपथ्यभेदाच्चतुर्द्धा, जातिाह्मण्यादि, कुलमुग्रादिः, रूपं महाराष्ट्रिकादिसंस्थानं, नेपथ्यं तत्तदेशप्रसिद्धं । न तां कथयिता भवति यः स निर्ग्रन्थो, न त्वन्यः, तत्कथमिति चेन्निर्ग्रन्थस्य खलु निश्चयेन स्त्रीणां कथां कथयतो ब्रह्मचारिणो ब्रह्मचर्ये शङ्का, इत्यादि प्राग्वत् । तस्मान्न स्त्रीणां कथां कथयेत् । उक्तं द्वितीयं स्थानम् ॥२॥
अथ तृतीयमाह
नो निग्गंथे इत्थीहिं सद्धिं संनिसिज्जागए विहरेज्जा तं कहमिति, निग्गंथस्स खलु इत्थीहिं सद्धि संनिसिज्जागयस्स विहरमाणस्स बंभचेरे
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org