________________
षोडशं ब्रह्मचर्यसमाधिस्थानाध्ययनम् ॥
भिक्षवो ब्रह्मचर्यस्थाः स्युरतो ब्रह्मगुप्तिज्ञप्त्यै षोडशं ब्रह्मचर्यसमाधिस्थानाध्ययनमाह-ब्रह्मणश्चर्यं सेवनं तेन समाधिश्चित्तस्वास्थ्यं तस्य स्थानानि निवासहेतव:, तेषामध्ययनम् । अत्र निर्युक्तिलेश:
बंभंमि (उ) चउकं, ठवणाबंभंमि बंभणुप्पत्ती ।
दव्वम्मि बत्थिनिग्गहो, अन्नाणीणं मुणेयव्वो ॥१॥ [ उत्त. नि./गा.३८१ ]
"
ब्रह्मणि नामादिचतुष्कनिक्षेपः स्थापना ब्रह्मणि ब्राह्मणोत्पत्तिः श्रीऋषभकृता वाच्या, आचाराङ्गनिर्युक्तियुक्त्या द्रव्य ब्रह्मबस्तिनिग्रहः उपस्थनिरोधमात्रं, अज्ञानिनां मिथ्यादृशां मुणितव्यो ज्ञातव्यः ॥
भावे (उ) वत्थिनिग्गहो, नायव्वो तस्स रक्खणट्ठाए ।
ठाणाणि ताणि वज्जिज्ज, जाणि भणियाणि अज्झयणे ॥२॥ [ उत्त. नि./गा. ३८२] भावे ब्रह्मज्ञानिनां बस्तिनिग्रहो ज्ञातव्यस्तस्य रक्षणाय च स्त्र्यादियुक्तवसत्यादीनि तानि स्थानानि वर्जयेत्, यानि अध्ययने भणितानि ।
अथ सूत्रम् -
सुअं मे आउस ते भगवया एवमक्खायं, इह खलु थेरेहिं भगवंतेहिं दसबंभचेरसमाहिठाणा पन्नत्ता ॥
व्याख्या - सुधर्मा जम्बूमाह - श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातं, ब्रह्मचर्यं तथेह प्रवचने खलु स्थविरैर्गणधराद्यैर्भगवद्भिर्दश ब्रह्मचर्यगुप्तिस्थानानि प्रज्ञप्तानि । कोऽर्थः ? नैषामियं स्वबुद्धिः, किं त्वर्हतः पार्श्वे श्रुत्वा सूत्रतो बद्धानि तान्येव विशिनष्टि ॥१॥ जे भिक्खू सोच्चा णिसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुतिदिए गुत्तबंभारी सया अप्पमत्ते विहरेज्जा ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org