________________
२३४
श्रीउत्तराध्ययनदीपिकाटीका-१ स्वस्वदर्शनवाग्भिर्विविधं समेत्य ज्ञात्वा, लोके सहितो रत्नत्रयेण, खेदयति कर्मानेनेति खेदः संयमस्तेनानुगतो युक्तः खेदानुगतः, चः पूर्ती, कोविदो लब्धशास्त्रतत्त्वतः आत्माऽस्येति कोविदात्मा 'पण्णे अभिभूय सव्वदंसी' ति प्राग्वत् । उपशान्तो अवहेठको न कस्यचिद्वाधको यः स भिक्षुः ॥१५॥ असिप्पजीवी अगिहे अमित्ते, जिइंदिए सव्वओ विप्पमुक्के । अणुक्कसाई लहुअप्पभक्खी, चिच्चा गिहं एक्कचरे स भिक्खू ॥१६॥ त्ति बेमि
व्याख्या-अशिल्पजीवी चित्रपत्रच्छेदादिविज्ञानाजीविकारहितः, अगृहो गृहस्थप्रसङ्गहीनः, अमित्रोऽशत्रुः, जितेन्द्रियः सर्वतो बाह्यादभ्यन्तराद्ग्रन्थाद्विप्रमुक्तः, अणवः स्वल्पाः सज्वलाख्याः कषाया अस्येति अणुकषायी, यद्वाऽनुकषायोऽप्रबलकषायी, अल्पानि लघूनि निःसारतया, निष्पावादीनि भक्षितुं शीलमस्येति अल्पलघुभक्षी, सूत्रत्वाद्वयत्ययः, त्यक्त्वा गृहं द्रव्यभावभेदभिन्नं, एको नीरागी असहायो वा चरतीत्येकचरो यः स भिक्षुः, अनेनैकाकिविहारोऽनुज्ञातः इति समाप्तौ ब्रवीमीति प्राग्वत् ।।१६।।
इति पञ्चदशं सभिक्षुकमध्ययनमुक्तम् ॥१५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org