________________
पञ्चदशं सभिक्षुकमध्ययनम्
२३३ अथ ग्रासैषणादोषत्यागमाहजं किंचि आहारपाणं विविहं, खाइमसाइमं परेसिं लद्धं ।
जो तं तिविहेण णाणुकंपे, मणवयकायसुसंवुडे स भिक्खू ॥१२॥
व्याख्या यत्किञ्चिदल्पमप्याहारपानं अशनं पानीयं विविधं खाद्यं स्वाद्यं परेभ्यो लब्ध्वा यतन्ते, तेनाहारादिना त्रिविधेन मनोवाक्कायै नुकम्पयेत् , बालग्लानादीन्नोपकुरुते, न स भिक्षुः, यस्तु संवृता वा मनोवाक्काया यस्य स संवृतमनोवाक्कायः स बालादीननुकम्पते स भिक्षुः ॥१२॥
अत्राङ्गारदोषत्याग उक्तः, धूमत्यागमाह
आयामगं चेव जवोदणं च, सीयं सोवीरजवोदगं च । नो हीलए पिंडं नीरसं तु, पंतकुलाणि परिव्वए स भिक्खू ॥१३॥
व्याख्या-आयामकं अवस्रावणं, चः समुच्चये, एव पूर्ती, यवोदनं यवभक्तं, शीतं अन्तप्रान्तं, सौवीरं च काञ्जिकं, यवोदकं यवधावनं, तच्च नो हीलयेत् धिगिदं किमनेनाऽनिष्टेनेति । पिण्डयते गृहिभ्यः प्राप्य मील्यत इति पिण्डं, आयामकायेव, नीरसं, तुः एवार्थे, अत एव प्रान्तकुलानि तुच्छाशयगृहाणि दरिद्रगृहाणि वा यः परिव्रजेत् स भिक्षुः ॥१३॥
अन्यच्चसद्दा विविहा भवंति लोए, देवा माणुस्सगा तहा तिरिच्छा । भीमा भयभेरवा उराला, जे सोच्चा ण विहज्जइ स भिक्खू ॥१४॥
व्याख्या-शब्दा विविधा विमर्शप्रद्वेषादिबहुभेदजन्यत्वात् , भवन्ति लोके, दिव्या दैवताः, मानुष्यका मनुष्यकृतास्तथा तैरश्चास्तिर्यक्कृताः, भीमा रौद्रा भयेन भैरवा अत्यन्तभयङ्कराः, उदारा महान्तः, एवंविधान् शब्दान् श्रुत्वा यो न व्यथते न बिभेति, धर्मध्यानान्न चलति वा, स भिक्षुः अनेनोपसर्गसहिष्णुत्वं सिंहविहारिताया निमित्तमुक्तम् ।।१४।।
अथ सर्वधर्ममूलसम्यक्त्वस्थैर्यमाहवायं विविहं समेच्च लोए, सहिए खेयाणुगए य कोवियप्या । पण्णे अभिभूय सव्वदंसी, उवसंते अविहेडए स भिक्खू ॥१५॥ व्याख्या-वादं, यथा
मुण्डस्य भवति धर्म-स्तथा जटाभिः सवाससां धर्मः । गृहवासेऽपि च धर्मो, वनेऽपि वसतां भवति धर्मः ॥१॥[ ]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org