SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २३२ श्रीउत्तराध्ययनदीपिकाटीका-१ मातारित्यादिस्मरणं, चिकित्सितं चात्मनो रोगप्रतीकाररूपं । तदिति यदनन्तरमुक्तं मन्त्राधुभयपरिज्ञया निजपरपरिज्ञया परिज्ञाय ज्ञपरिज्ञया ज्ञात्वा, प्रत्याख्यानपरिज्ञया च प्रत्याख्याय परिव्रजेत् संयमाध्वनि यो यायात् स भिक्षुरिति ||८|| अन्यच्च खत्तियगण उग्गरायपुत्ता, माहणभोइय विविहा य सिप्पिणो। नो तेसिं वयइ सिलोगपूइयं, तं परिणाय परिव्वए स भिक्खू ॥९॥ व्याख्या-क्षत्रियगणा उग्रराजपुत्रा इति । क्षत्रिया राजानः, गणा मल्लादिसमूहाः, उग्रा आरक्षकाद्याः, राज्ञः पुत्रा राजपुत्राः, माहनभोगिकाः, माहना ब्राह्मणाः, भोगेन विशिष्टनेपथ्यादिना चरन्तीति भोगिका नृपामात्याद्याः, उभयत्र सुपो लोपः, विविधाश्च शिल्पिनः शतपत्याद्याः, नैव तेषां वदति श्लोकपूजे कीर्तिपूजने, यथैते भव्या इति तेषां कीर्तिः, यथैतान् पूजयतेति तत्पूजोपदेशः, एवमुभयत्र पापानुमत्यादिदोषोत्पत्तेः, एवं तत् श्लोकपूजादिकं दूषणात्मकं द्विधापि परिज्ञाय परिव्रजेत् यः, स भिक्षुः, एवं वनीपकत्वत्याग उक्तः ।।९।। अथ संस्तवत्यागःगिहिणो जे पव्वइएण दिट्ठा, अप्पव्वइएण व संथुया हविज्ज । तेसिं इहलोइयफलट्ठयाए, जो संथवं न करेइ स भिक्खू ॥१०॥ व्याख्या-ये गृहिणः प्रव्रजितेन दृष्टाः परिचिताश्च, अप्रव्रजितेन वा गृहस्थावस्थेन वा संस्तुता: परिचिता भवेयुः, 'तेसिं'त्ति तैः सहेहलौकिकफलार्थं वस्त्रादिलाभार्थं यः संस्तवं परिचयं न करोति स भिक्षुः ॥१०॥ तथा सयणासणपाणभोयणं, विविहं खाइमसाइमं परेसिं । अदए पडिसेहिए नियंठे, जे तत्थ न पदूसई स भिक्खू ॥११॥ व्याख्या-शयनासनपानभोजनं, द्वन्द्वः, विविधं खादिमं स्वादिमं, परैर्गृहस्थादिभिः, 'अदए'त्ति अदद्भिः प्रतिषिद्धो निराकृतः स निर्ग्रन्थो मुक्तद्रव्यभावग्रन्थो यस्तत्राऽदाने न प्रदुष्यति, पुनर्दास्यतीतिवाचिक्षपकर्षिवद्यो द्वेषं न कुर्यात् , स भिक्षुरिति । अनेन क्रोधपिण्डत्याग उक्तः, एवं शेषभिक्षादोषत्यागो ज्ञेयः ॥११॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy