SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २३१ पञ्चदशं सभिक्षुकमध्ययनम् तथान्तरिक्षमाकाशं, तत्र भवमान्तरिक्षं, गन्धर्वपुरादिलक्षणं, यथा कपिलं शस्यघाताय, माञ्जिष्ट हरणं गवां । अव्यक्तवर्णं कुरुते, बलक्षोभं न संशयः ॥१॥[ ] गन्धर्वनगरं स्निग्धं, प्रासादं च सतोरणं । सौम्यां दिशं समाश्रित्य, राज्ञस्तद्विजयकरम् ॥२॥ [ ] इत्यादि । स्वप्नगतं शुभाशुभोक्तिर्यथा गायने रोदनं ब्रूया-नर्त्तने वधबन्धनं । हसने शोचनं ब्रूयात्, पठने कलहं तथा ॥१॥[ ] इत्यादि । लक्षणं स्त्रीपुरुषयोर्गजादीनां यथा चक्खसिणेहे सुहओ, दंतसिणेहे य भोयणं मिटुं । ___ नयणसिणेहे सुक्खं, नहनेहे होइ परमधणं ॥१॥ इत्यादि । दण्डो यष्टिस्तत्स्वरूपं–“एगपव्वं पसंसंति" इत्यादि । वास्तुविद्या प्रासादादिलक्षणवाचिशास्त्रं अङ्गविकारः शिर:स्फुरणादिः, “सिरप्फुरणे किर रज्जं' इत्यादि । स्वरस्य दुर्गाशिवादिकृतस्य विजयः शुभाशुभनिरूपणाभ्यासः, यथा गतिस्त्वरा स्वरो वामो, दुर्गायाः शुभदः स्मृतः ।। विपरीतः प्रवेशे तु, स एवाभिष्टदायकः ॥१॥[ ] इत्यादि । दुर्गास्वरत्रयं स्याद्, ज्ञातव्यं शाकुनेन नैपुण्यात् । चिलिचिलिशब्दः सफलः, सुर्मध्यश्चलचलो विफलः ॥१॥[ ] इत्यादिभिर्विद्याभिर्न जीवति, नैता एवाजीविकाः प्रकल्प्य यः प्राणान् धारयति स भिक्षुः, अनेन निमित्तलक्षणोत्पादनादोषपरिहार उक्तः ॥७॥ अथ मन्त्रादि तद्दोषत्यागायाहमंतं मूलं विविहं विज्जचिंतं, वमणविरेयणधूमणेत्तसिणाणं । आतुरे सरणं तिगिच्छियं च, तं परिण्णाय परिव्वए स भिक्खू ॥८॥ व्याख्या-मन्त्रं ॐकारादि स्वाहापर्यन्तं ह्रींकारादिवर्णात्मकं, मूलं सहदेवीकल्पादि, तत्तच्छास्त्रकृतं मूलकर्म वा विविधं, वैद्यचिन्तां वर्जयेत् , विदलं शूलीत्यादि । वमनं उद्गीरणं, विरेचनं कोष्ठशुद्धिरूपं, धूमं मन:शीलादिसम्बन्धि, नेत्रशब्देन नेत्रौषधं सुवीराञ्जनादि, स्नानमन्यार्थं मन्त्रौषधसंस्कृतजलैः सुब्ब्यत्ययादातुरस्य रोगादिपीडितस्य हा Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy