________________
२३०
श्रीउत्तराध्ययनदीपिकाटीका-१ व्याख्या-नो संस्कृतं अभ्युत्थानाऽनुगमनादिकमिच्छति, न पूजां वस्त्राद्यैः, नापि च वन्दनकं द्वादशावर्तादि, तर्हि कुतः प्रशंसां ? निजगुणोत्कीर्तनं नैवेच्छतीत्याशयः, स एवंविधः, सम्यग् यतते सदनुष्ठानं प्रतीति संयतः, अत एव सुव्रतः सुव्रतत्वाच्च तपस्वी प्रशस्यतपाः, सहितः सम्यग्ज्ञानक्रियाभ्यां, यद्वा सह हितेन आयतिपथ्येनाऽनुष्ठानेन वर्त्तते इति सहितः, तत एवात्मानं कर्मविगमात् शुद्धं गवेषयति यः स आत्मगवेषकः, यद्वा आयः सम्यग्दर्शनादिलाभः, सूत्रत्वादायतो वा मोक्षस्तं गवेषयतीत्यायगवेषकः, आयतगवेषको वा यः स भिक्षुः ॥५।।
तथाजेण पुण जहाइ जीवियं, मोहं वा कसिणं णियच्छई। नरनारिं पजहे सया तवस्सी, न य कोऊहलं उवेइ स भिक्खू ॥६॥
व्याख्या-येन हेतुना, पुनःशब्दोऽस्य सर्वथा संयमघातित्वविशेषद्योतकः, जहाति त्यजति जीवितं संयमजीवितं, मोहं मोहनीयं वा कषायनोकषायादिरूपं कृत्स्नं समस्तं, कृष्णं वाऽशुद्धाशयं, हन्तृतया, नियच्छति बध्नाति, तदेवंविधं नरं च नारी च नरनारी प्रजह्यात् , यः सदा तपस्वी न च स कुतूहलं, अभुक्तभोगितायां स्त्र्यादिविषयं, उपलक्षणात् भुक्तभोगायां स्मृति चोपैति, स भिक्षुः ॥६॥
पिण्डविशुद्ध्या सभिक्षुत्वमाहछिण्णं सरं भोममंतलिक्खं, सुमिणं लक्खणदंडवत्थुविज्जं ।
अंगवियारं सरस्स विजयं, जो विज्जाहिं ण जीवइ स भिक्खू ॥७॥
व्याख्या-छेदनं छिन्नं, वस्त्रदन्तदार्वादीनां, तद्विषयशुभाशुभनिरूपिका विद्यापि छिन्नमित्युक्ता । एवं सर्वत्र । “देवेसु उत्तमो लाहो' इत्यादि कर्दमाञ्जनाद्यैः । तथा स्वर:
सज्जं रवइ मयूरो, कुक्कुडो रिसहं सरं । हंसो रवइ गंधारं, मज्झिमं तु गवेलए ॥१॥[ ] इत्यादि । तथासज्जेण लहइ वित्तिं, कयं च ण विणस्सई । गावो पुत्ता य मित्ता य, नाणीणं होइ वल्लहो ॥२॥ [ ]
रिसहेण उ ईसरियं, सेणावच्चं धणाणि य । [ ] इत्यादि । तथा भूमौ भवं भौमं, भूकम्पादिलक्षणं, यथा
शब्देन महता भूमि-र्यदा रसति कम्पते । सेनापतिरमात्यश्च, राजा राष्ट्रं च पीड्यते ॥१॥[ ]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org