________________
पञ्चदशं सभिक्षुकमध्ययनम्
२२९ व्याख्या-राग उपरतो निवृत्तो यस्मिंस्तद्रागोपरतं यथा भवत्येवं विहरेत् , क्तान्तस्य परनिपातः, अनेन मैथुननिवृत्तिरुक्ता रागाऽविनाभावित्वात्तस्य, यद्वा 'राऊवरयं' रात्र्युपचरितं चरेत् भक्षयेत् , इत्यनेन रात्रिभोजननिवृत्तिरुक्ता । लाढः सदनुष्ठानतया प्रधानः, विरतोऽसंयमात् निवृत्तः, अनेन असंयमस्याक्षेपात् प्राणातिपातनिवृत्तिः, सा च सावधवाग्निवृत्तिरूपत्वाद्वाक्संयमेन मृषावादनिवृत्तिरप्युक्ता । वेदः सिद्धान्तस्तस्य वेदनं, तेनात्मा रक्षितो दुर्गतेरनेनेति वेदविदात्मरक्षितः, प्राज्ञो हेयोपादेयबुद्धिमान् , अभिभूय परीषहोपसर्गान् , सर्वं प्राणिगणं पश्यत्यात्मवत् प्रेक्षते इत्येवंशीलः, अथवा अभिभूय रागद्वेषौ सर्वं वस्तु समतया पश्यतीत्येवंशीलः सर्वदर्शी, यद्वा सर्वं दशति भक्षयतीत्येवंशीलः सर्वदर्शी उक्तं हि-"पडिग्गहं संलिहित्ताणं" [द.५-२।१] इत्यादि । पुनर्यः कश्चित् (कस्मिश्चित्) सचित्तादिवस्तुनि न मूच्छितः, एतेन परिग्रहनिवृत्तिरुक्ता । तद्वांश्च कथमाददीतेति अदत्तादानानिवृत्तिरुक्ता । य एवं मूलगुणान्वितः स भिक्षुः स्यादिति ॥२॥
अन्यच्च
अक्कोसवहं विइतु धीरे, मुणी चरे लाढे नियमायगुत्ते ।
अव्वग्गमणे असंपहिढे, जे कसिणं अहियासए स भिक्खू ॥३॥
व्याख्या-समाहारद्वन्द्वे आक्रोशवधं विदित्वा, स्वकर्मफलमेतदिति मत्वा धीरऽक्षोभ्यः सम्यक्सोढेत्यर्थः, मुनिश्चरेत् अप्रतिबद्धविहारेण, लाढः क्रियापरो नित्यं सदा, गुप्तो रक्षितोऽसंयमस्थानेभ्य आत्मा येन स आत्मगुप्तः, यद्वा न करपादादिविक्षेपकृत् , अव्यग्रमसंमजसचिन्तोपरतं मनोऽस्येत्यव्यग्रमनाः, असंप्रहृष्ट आक्रोशदानादिषु न प्रहर्षवान् , एवंविधो यः कृत्स्नमाक्रोशवधमध्यास्ते सहते स भिक्षुः ||३||
किञ्चपंतं सयणासणं भइत्ता, सीउण्हं विविहं च दंसमसगं ।
अव्वग्गमणे असंपहिढे, जे कसिणं अहियासए स भिक्खू ॥४॥
व्याख्या-प्रान्तं अवमं शयनासनं अन्नं वस्त्रादि च भुक्त्वा सेवित्वा, शीतं चोष्णं सेवित्वा, विविधं च दंशमशकं मत्कुणाद्यं च प्राप्येत्यध्याहार्यं । अव्यग्रमनाः स्थिरचित्तः, असंप्रहृष्टश्च पूर्ववत् , यः कृत्स्नमध्यास्ते स भिक्षुः ॥४॥
नो सक्कियमिच्छइ न पूयं, णो वि य वंदणगं कुओ पसंसं । से संजए सुव्वए तवस्सी, सहिए आयगवेसए स भिक्खू ॥५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org