SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २२७ चतुर्दशमिषुकारीयाध्ययनम् सम्मं धम्मं वियाणित्ता, चिच्चा कामगुणे वरे । तवं पगिज्झ जहक्खायं, घोरं घोरपरक्कमा ॥५०॥ व्याख्या-सम्यग्धर्मं श्रुतचारित्रात्मकं विज्ञाय, त्यक्त्वा कामगुणान् वरान् , पुनः कामगुणोक्तिरतिशयज्ञप्त्यै, तपः प्रगृह्यादृत्य, यथाख्यातं यथार्हद्भिरुक्तं घोरं अत्यन्तदुरनुचरं, घोरः पराक्रमो धर्मानुष्ठानविषयो ययोस्तौ घोरपराक्रमौ, एवंविधौ राज्ञीनृपौ प्राव्रजताम् ॥५०॥ निगमयतिएवं ते कमसो बुद्धा, सव्वे धम्मपरायणा । जम्ममच्चुभयुव्विग्गा, दुक्खस्संतगवेसिणो ॥५१॥ व्याख्या-एवममुना प्रकारेण ते षडपि क्रमशोऽभिहितपरिपाट्या बुद्धाः सर्वे धर्मपरायणाः (पाठान्तरे-['धम्मपरंपर'त्ति] परम्परया धर्मो येषां ते परम्पराधर्माः) परम्पराशब्दस्य व्यत्ययः, साधुदर्शनात् कुमारयोः, तद्वचसः पित्रोः, तद्दर्शनाद्देव्याः, ततो राज्ञः, इति परम्परया धर्माप्तिः, जन्ममृत्युभयोद्विग्ना, दुःखस्यान्तं गवेषकाः ॥५१॥ सासणे विगयमोहाणं, पुचि भावणभाविया । अचिरेणेव कालेणं, दुक्खस्संतमुवागया ॥५२॥ व्याख्या-शासने विगतमोहानां अर्हतां, पूर्वमन्यजन्मनि भावनया शुभकर्माभ्यासेन भाविताः, पूर्वोत्तरनिपातस्याऽतन्त्रत्वात् , अचिरेणैवाल्पेनैव कालेन दुःक्खस्यान्तं मोक्षमुपागताः ॥५२॥ मन्दमतिस्मरणायाध्ययनार्थमुपसंहर्तुमाहराया सह देवीए, माहणो य पुरोहिओ। माहणी दारगा चेव, सव्वे ते परिनिव्वुडे ॥५३॥ त्ति बेमि व्याख्या-राजा इषुकारः सह देव्या कमलवत्या, ब्राह्मणश्च पुरोहितो भृगुर्द्विजः, तत्पत्नी यशा, दारको तत्पुत्रौ, चैव पूर्ती, सर्वे ते परिनिर्वृत्ताः, कर्माग्न्युपशामत् शीतीभूता मुक्तिं गताः, इति ब्रवीमीति पूर्ववत् ॥५३।। इत्यनिदाने चतुर्दशमिषुकारीयाध्ययनमुक्तम् ॥१४॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy