________________
२२६
श्रीउत्तराध्ययनदीपिकाटीका-१ ननु कामाऽस्थिरत्वेऽपि सुखहेतुत्वात् किममी त्यज्यन्ते ? इत्याहसामिसं कुललं दिस्सा, बज्झमाणं निरामिसं ।
आमिसं सव्वमुज्झित्ता, विहरिस्सामो निरामिसा ॥४६॥ व्याख्या-सहामिषेण वर्त्तते इति सामिषं कुललं गृ शकुनिकां वा दृष्ट्वा बाध्यमानं पीड्यमानं पक्ष्यन्तरैः, निरामिषं च निर्भयं दृष्ट्वा, आमिषं सङ्गहेतुं धनधान्यादिसर्वमुज्झित्वा विहरिष्यामः अप्रतिबद्धविहारितया निरामिषा त्यक्तरागहेतवो वयम् ॥४६॥
उक्तानुवादेनोपदिशतिगिद्धोवमे उ नच्चा णं, कामे संसारवद्धणे ।
उरगो सुवण्णपासि व, संकमाणो तणुं चरे ॥४७॥
व्याख्या-सामिषगृद्धोपमान् , तुः समुच्चये विषयामिषवतो लोकान् कामांश्च संसारवर्द्धकान् ज्ञात्वा, उरग इव सौपर्णेयपार्वे शङ्कमानो भयत्रस्तः, तन्विति स्तोकं, यथा तद्गमनं गरुडो न वेत्तीति, यतनया चरे: क्रियासु प्रवर्तस्व ? यथा गरुडोपमैर्विषयैस्त्वं न हन्यसे तथा संयमं कुर्वित्यर्थः ॥४७॥
नागो व बंधणं छित्ता, अप्पणो वसहिं वये ।
एयं पत्थं महारायं, उसुयारे त्ति मे सुयं ॥८॥
व्याख्या-नागो गज इव बन्धनं छित्वात्मनो वसतिं व्रजे: ! यथायं वरत्रां छित्वात्मनो वसतिं विन्ध्याटवीं याति, एवं त्वं कर्मबन्धनं छित्वा शुद्धजीवस्य वसतिमाश्रयं मुक्तिं व्रजेः, एवं दीक्षायाः फलमुक्तं, उपदिश्य निगमयति-एतद्यन्मयोक्तं पथ्यं हितं, हे महाराज ! इषुकारनामन् ! न तत्स्वधियोच्यते, किन्त्वितीत्येतन्मया श्रुतं साधुभ्य इति सूत्रार्थः ॥४८॥
एवं तगिरा नृपः प्रबुद्धः
चइत्ता विउलं रटुं ( रज्जं), कामभोगे य दुज्जए । णिव्विसया णिरामिसा णिण्णेहा णिपरिग्गहा ॥४९॥
व्याख्या-राजा राज्ञी च त्यक्त्वा विपुलं राष्ट्र (पाठान्तरे-राज्यं) कामभोगांश्च दुस्त्यजान् , निर्विषयावत एव निरामिषौ, यद्वा विषयो देशस्तेन रहितौ, तत्त्यागे कामभोगत्यागे च निरामिषौ सङ्गहेतुमुक्तौ निःस्नेही निःप्रतिबन्धौ नि:परिग्रहौ ॥४९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org