SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ चतुर्दशमिषुकारीयाध्ययनम् किञ्चदवग्गिणा जहारण्णे, डज्झमाणेसु जंतुसु । अन्ने सत्ता पमोयंति, रागद्दोसवसं गया ॥४२॥ व्याख्या-दवाग्निना यथाऽरण्ये दह्यमानेषु भस्मीक्रियमाणेषु जन्तुषु अन्ये सत्त्वा अज्ञानाः प्रमोदन्ते, वयं निर्भयाः सुखिन एवेति, रागद्वेषवशं गताः ॥४२॥ एवमेवं वयं मूढा, कामभोगेसु मुच्छिया । डज्झमाणं न बुज्झामो, रागद्दोसग्गिणा जगं ॥४३॥ व्याख्या-एवमेव बिन्दोरलाक्षणिकत्वात् , वयं मूढा मोहवशाः, कामभोगेषु मूच्छिताः, दह्यमानं न बुद्धयामहे नावगच्छामः, रागद्वेषाग्निना जगत् प्राणिवृन्दं स्वं च, यो हि सविवेकोऽरागी च स्यात् स दह्यमानानन्यसत्त्वानवलोक्यात्मरक्षणोपायपर एव स्यात् , न तु प्रमोदते, ततो वयमपि भोगाऽपरित्यागादज्ञाना एव ॥४३।। ये त्वेवंविधा न स्युस्ते किं कुर्वन्तीत्याहभोगे भोच्चा वमित्ता य, लहुभूयविहारिणो । आमोयमाणा गच्छंति, दिया कामकमा इव ॥४४॥ व्याख्या-भोगान् भुक्त्वा, पुनरुत्तरकाले वान्त्वा च, लघुर्वायुस्तद्भूतास्तत्समा लघूभूताः सन्तो विहरामः, इत्येवंशीला लघुभूतविहारिणः, अप्रतिबद्धविहारिणो वा, आमोदमानास्तथाविधानुष्ठानेन हृष्यन्तो गच्छन्त्युत्तमां गति, ग्रामानुग्रामं वा, द्विजाः पक्षिण इव, यथा ते कामक्रमाः स्वेच्छाचारिणो यत्र यत्र रोचन्ते तत्र तत्र मोदमाना भ्रमन्ति । एवं साधवः सङ्गमाऽभावाद्यत्र यत्र संयमनिर्वाहस्तत्र तत्र यान्ति ॥४४|| पुनर्बाह्यास्थां निराकुरुतेइमे य बद्धा फंदंति, मम हत्थऽज्जमागया । वयं च सत्ता कामेसु, भविस्सामो जहा इमे ॥४५॥ व्याख्या-इमे प्रत्यक्षाः शब्दाद्याः, चः निश्चये, बद्धा नियन्त्रिता वीणादिस्नानाद्यारामादिभोगादिदुकूलशय्याद्यनेकधोपायै रक्षिताः स्पन्दन्ते, अस्थितधर्मतया कम्पन्ते, मम च तव च हस्ते हे आर्य ! आगताः स्ववशा इत्यर्थः, वयं पुनरीदृशेष्वपि कामेषु सक्ता निस्पन्दामहे, आयुषश्चलतया परलोकगमननिश्चयेऽपि, अतो भविष्यामो यथेमे पुरोहिताद्याः, यथैभिश्चलत्वं ज्ञात्वा भोगास्त्यक्तास्तथा वयमपि तांस्त्यक्षामः ॥४५॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy