________________
२२४
श्रीउत्तराध्ययनदीपिकाटीका-१
किञ्च
सव्वं जगं जइ तुहं, सव्वं वावि धणं भवे । सव्वं वि ते अपज्जत्तं, णेव ताणाय तं तव ॥३९॥
व्याख्या-सर्वं जगत् यदि तव भवेत् , सर्वं चापि धनं स्वर्णादि तव भवेत् , एवं सर्वमपि ते इच्छापूर्ती अपर्याप्तमशक्तं । आकाशसमत्वेन तस्या अपर्यवसितत्वात् । न वा त्राणाय जरामृत्य्वादिनाशाय तत्सर्वं जगद्धनं वा ते भवेत् ॥३९॥
धनाद्यग्रहणहेतुमनित्यतां चाह
मरिहिसि रायं जया तया वा, मणोरमे कामगुणे पहाय । इक्को हु धम्मो नरदेव ताणं, न विज्जइ अण्णमिहेह किंचि ॥४०॥ व्याख्या हे राजन् ! मरिष्यसि यदा तदा वा कालेऽवश्यमेव । यतः
कश्चित्तावत्त्वया दृष्टः, श्रुतो वा शङ्कितोऽपि वा ।
क्षितौ वा यदि वा स्वर्गे, यो जातो न मरिष्यति ॥१॥[ ] सर्वान् भोगान् भुक्त्वैव मरिष्यामीत्यत आह-मनोरमान् कामगुणान् प्रहाय तथा एकाक्येव मरिष्यसि, न किञ्चित्त्वया सह यास्यतीति । तत एक एव धर्मः सम्यग्दर्शनादिरूपो हे नरदेव! हे नृप ! त्राणं शरणमापत्परिरक्षणं, न विद्यतेऽन्यदपरमिहास्मिन् लोके मृत्यौ वा त्राणं, धर्म एवैकस्त्राणं मुक्तिहेतुत्वेन, नान्यत्किञ्चित्ततः स एवानुष्ठेयः, इति सूत्रचतुष्टयार्थः ॥४०॥
अतःनाहं रमे पक्खिणि पंजरे वा, संताणछिन्ना चरिस्सामि मोणं । अकिंचणा उज्जुकडा निरामिसा, परिग्गहारंभनियत्तदोसा ॥४१॥
व्याख्या-न रतिमाप्नोमि, वाशब्द औपम्ये, ततः पक्षिणीव पञ्जरे, यथाऽसौ दुःखोत्पादिन पञ्जरे न रतिं लभते, एवमहमपि जरामरणधुपद्रवविद्रुते भवपञ्जरे न रमे, छिन्नसन्ताना छिन्नस्नेहसन्ततिश्चरिष्यामि मौनं मुन्यनुष्ठानं, अविद्यमानं किञ्चनं, द्रव्यतो हिरण्यादि, भावतः कषायादिरूपमस्या इत्यकिञ्चना, ऋजु मायारहितं कृतमनुष्ठानं यस्या इति ऋजुकृता, नि:क्रान्ता आमिषाद्विषयादेनिरामिषा, परिग्रहारम्भावेव दोषौ, ताभ्यां निवृत्ता परिग्रहारम्भदोषनिवृत्ता, सूत्रत्वाद्दोषशब्दव्यत्ययः, यद्वा परिग्रहारम्भनिवृत्ता अत एवाऽदोषा निर्विकारा ॥४१॥
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org