________________
चतुर्दशमिषुकारीयाध्ययनम्
२२३ व्याख्या-छित्वा तीक्ष्णपुच्छादिना जालं, अबलमिव जीर्णत्वादिना नि:सारमिव, बलवन्तो रोहिता रोहितजातीया मत्स्याश्चरन्ति यथा, तथा जालप्रायान् कामगुणान् प्रहाय, धुरं वहन्तीति धौरेयास्तेषामिव शीलं उत्क्षिप्तभारवाहितालक्षणं येषां ते धौरेयशीलाः, तपसा उदारा धीराः सत्त्ववन्तो, हुर्यस्मात् भिक्षाचर्यां व्रतं चरन्ति, अतोऽहमपि व्रतं ग्रहीष्ये ॥३५॥
ततः प्रबुद्धा साहनहेव कोंचा समतिक्कमंता, तयाणि जालाणि दलित्तु हंसा । पलिंति पुत्ता य पई य मज्झं, तेहं कहं णाणुगमिस्समेक्का ॥३६॥
व्याख्या-नभसीव क्रौञ्चाः पक्षिणः समतिक्रामन्तस्तांस्तान् देशानुल्लङ्घयन्तः, ततानि विस्तीर्णानि जालानि बन्धनान्यात्माऽनर्थहेतून् दलयित्वा भित्वा, चस्य गम्यत्वात् , हंसाश्च परियन्ति समन्ताद् गच्छन्ति, एवं पुत्रौ च पतिश्च मम यतन्ते जालोपमं विषयाभिष्वङ्ग छित्वा नभ:कल्पे निरुपलेपे संयमाध्वनि, तानि तानि संयमस्थानान्यतिक्रम्य गन्तुं, अतस्तानहं कथं नानुगमिष्याम्येका ? अनुगमिष्याम्येव । यदि वा जालानि भित्त्वेति हंसानामेव सम्बद्ध्यते, खमतिक्रामन्तः स्वातन्त्र्येण गच्छन्त इति तु क्रौञ्चानां । ततः क्रौञ्चदृष्टान्ततोऽकृतदारादिबन्धनसुतापेक्षः, हंसदृष्टान्तस्तु जातदारसुतपत्यपेक्षः ॥३६॥
एवं चतुर्णां प्रव्रज्याप्रतिपत्तौपुरोहियं तं ससुयं सदारं, सोच्चाभिणिक्खम्म पहाय भोए । कुटुंबसारं विउलुत्तमं तं, रायं अभिक्खं समुवाय देवी ॥३७॥
व्याख्या-पुरोहितं तं भृगुं ससुतं सदारं श्रुत्वाऽभिनिःक्रम्य गृहान्निर्गत्य प्रव्रजितं, प्रहाय त्यक्त्वा भोगान् कुटुम्बसारं धनधान्यादि, विपुलं विस्तीर्णतया उत्तम, प्रधानतया विपुलोत्तमं तत् पुरोहितसत्कं गृह्णन्तमित्यध्याहार्य, राजानं अभीक्ष्णं पुनः पुनः समुवाच सम्यगूचे देवी राज्ञी कमलावती नाम्नी ॥३७॥
वंतासी पुरिसो रायं, ण सो होइ पसंसिओ । माहणेण परिच्चत्तं, धणं आयउमिच्छसि ॥३८॥
व्याख्या-वान्तमशितुं भोक्तुं शीलो वान्ताशी पुरुषोऽयं राजन् ! स न भवति प्रशंसितो विद्वद्भिः, कथं वान्ताशीत्याह-ब्राह्मणेन परित्यक्तं धनमादातुमिच्छसि, परिहतं हि धनं यत्तद्वान्तमिव, ततस्तदादातुमिच्छुस्त्वमपि वान्ताशी, न चेदमुचितं भवादृशाम् ॥३८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org