________________
२२२
भृगुराह—
भुत्ता रसा भोइ जहाइ णे वओ, न जीवियट्ठा पहामि भो । लाभं अलाभं च सुहं च दुक्खं, संविक्खमाणो चरिसामि मोणं ॥ ३२ ॥
श्रीउत्तराध्ययनदीपिकाटीका - १
व्याख्या- भुक्ता रसा मधुरादयः शेषकामगुणाश्च, हे भवति ! ब्राह्मण्या आमन्त्रणवचनमेतत् । जहाति त्यजति नोऽस्मान् वयो यौवनं क्रियाकरणक्षमं आयुश्च । ततो यावन्नैतत्त्यजति तावद्दीक्षां प्रपद्यामहे इत्याशयः । तत्किं वयःस्थैर्याद्यर्थं दीक्षां प्रतिपद्यसे ? उच्यते हि कैश्चिद्दीक्षा वयःस्थैर्यादिविधायिनीत्याशङ्क्याह - नेति निषेधे, न जीवितार्थं वयःस्थैर्यार्थं प्रजहामि भोगान्, किं तु लाभं वस्त्राद्याप्ति, अलाभं तदाद्यप्राप्ति, सुखं विषयोत्थं, दुःखं व्याध्यात्मकं समीक्षमाणः पश्यन् जीवितमरणादीनां च समतामेव विभावयंश्चरिष्यामि मौनं मुनिभावं । ततो मुक्त्यर्थमेव मम दीक्षाप्रतिपत्तिः ||३२||
यशा प्राह
माहू तुमं सोयरियाण संभरे, जुन्नो व हंसो पडिसुयगामी । भुंजाहि भोगाई मए समाणं, दुक्खं खु भिक्खायरिया विहारो ॥ ३३ ॥
व्याख्या - मा निषेधे, हूः अलङ्कारे, त्वं सौदर्याणां सहोदराणां शेषस्वजनानां भोगानां च स्मार्षीः, जीर्णो हंस इव प्रतिश्रोतोगामी, यथासौ नदी श्रोतसि प्रतिकूलगमनं अतिकष्टमारभ्यापि तत्राऽशक्तः पुनरनुश्रोत एव धावति, एवं त्वमपि संयमासक्तः पुनः पुनः सोदरान् भोगांश्च स्मरिष्यसि ततो भुङ्क्ष्व भोगान् मया सह खुर्निश्चितं भिक्षाचर्या विहारो ग्रामादिष्वप्रतिबद्धविहारः शिरोलुञ्चनादिना दुःखमेव ||३३||
भृगुः प्राह
जहा य भोई तणुजं भुजंगमो, निम्मोइणीं हिच्च पलेइ मुत्तो । इमे ते जाया पयहंति भोए, तेऽहं कहं नाणुगमिस्समिको ||३४||
व्याख्या- यथा च हे भवति ! ( पाठान्तरे - हे भोगिनि !) तनुजां निर्मोचनीं कञ्चुलिकां भुजङ्गमो हित्वा पर्येति समन्ताद् गच्छति ( पाठान्तरे - 'पलाई ' प्रयाति) मुक्तो निरपेक्षः, एवमेतौ ते जातौ प्रजहीतो भोगान् । तौ भोगांस्त्यजन्तौ अहं कथं नानुगमिष्यामि ? व्रतादानेनैकोऽद्वितीयः, किं ममाऽसहायस्य गृहवासेन ? ||३४||
तथा
छिंदित्तु जालं अबलं व रोहिया, मच्छा जहा कामगुणो पहाय । धौरेयसीला तवसा उयारा, धीरा हु भिक्खायरियां चरंति ॥ ३५ ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org