________________
चतुर्द्दशमिषुकारीयाध्ययनम्
२२१
कः कस्य स्वजनो न वा अस्वजन इति । उक्तं च- " अयं णं भंते जीवे एगमेगस्स जीवस्स माइत्ताए (पियत्ताए ) भाइत्ताए पुत्तत्ताए धूयत्ताए सुण्हत्ताए भज्जत्ताए सुहिसंबंधत्ताए उववन्ने पुव्वे ? हन्ता गोयमा ! असई अदुवा अणन्तखुत्तो "त्ति ||२८||
ततस्तद्वचनात् पुरोहितो जातव्रतेच्छो ब्राह्मणीं विघ्नकारिणीं मत्वेदमाह– पहीणपुत्तस्स हु नत्थि वासो, वासिट्टि भिक्खायरियाए कालो । साहाहि रुक्खो लहई समाहिं, छिण्णाहिं साहाहिं तमेव खाणुं ॥ २९ ॥
व्याख्या - प्राकृतत्वेन पुत्राभ्यां प्रहीणस्त्यक्तो यस्तस्य, हुः पूर्त्ती, नास्ति गृहे वासो मे, हे वाशिष्टि ! हे वाशिष्टगोत्रोद्भवे ! यशोगौरवहेतुगोत्राभिधानं यथाऽस्या अभिधानं धर्माभिमुख्यं स्यात् इति । भिक्षाचर्याया अयं कालः प्रस्तावो वर्त्तते । यतः शाखाभिर्वृक्षो लभते समाधिं स्वास्थ्यं, छिन्नाभिः शाखाभिस्तमेव द्रुमं स्थाणुं जानीहि ? यथा शाखाद्रोः शोभारक्षणादिना समाधिहेतवः, एवं ममैतौ सुतौ, अतस्तद्विरहितोऽहं स्थाणुकल्प एव ॥ २९ ॥
किञ्च
पंखाविहूणो व जह पक्खी, भिच्चविहूणो व रणे नरिंदो । विवण्णसारो वणिउ व्व पोए, पहीणपुत्तो मि तहा अहं पि ॥ ३० ॥
व्याख्या - वा दृष्टान्तान्तरे, पक्षाभ्यां विहीनो यथेह लोके पक्षी नंष्टुमशक्त ओत्वादिभिर्हन्यते, तथा भृत्यैर्विहीनो वा रणे नरेन्द्रो जीयते, तथा विपन्नसारो विहिरण्यरत्नादिर्वणिक् सांयात्रिको [ वेति प्राग्वत् ] पोते प्रवहणे भिन्ने नार्वाक् न च परत इत्यब्धिमध्यवर्त्ती विषीदति, पुत्रप्रहीणस्तथाहमपि पक्षभृत्पार्श्वसारैस्तुल्याभ्यां सुताभ्यां त्यक्तोऽहमपीदृगित्यर्थः ||३०||
अथ यशाह
सुसंभिया कामगुणा इमे ते, संपिंडिया अग्गरसा पभूया । भुंजामु ता कामगुणा पगामं, पच्छा गमिस्साम पहाणमग्गं ॥ ३१॥
व्याख्या - सुसम्भृताः सुष्ठु संस्कृतास्ते तव कामगुणा वेणुवीणाकलगीतादय इमे स्वगृहवर्त्तिनः, [‘ते' तव ] तथा सम्पिण्डिताः सम्यक्पूञ्जीकृताः, अग्र्याः प्रधानाः रसा मधुराद्याः प्रभूताः, पृथग्ग्रहणं रसानामतिगृद्धिहेतुत्वात् । भुञ्जीमहि तत् तस्मात् कामगुणान् प्रकामं । पश्चाद्वृद्धावस्थायां गमिष्यामः प्रतिपत्स्यामहे प्रधानमार्गं, महापुरुषसेव्यं प्रव्रज्यारूपं मुक्तिपथम् ॥३१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org