________________
२२०
श्रीउत्तराध्ययनदीपिकाटीका-१ इत्थं व्यतिकरण प्रव्रज्याप्रतिपत्तिहेतुमुक्त्वा तमेवान्वयेनाह
जा जा वच्चइ रयणी, न सा पडिनियत्तइ । धम्मं च कुणमाणस्स, सहला जंति राइओ ॥२५॥
व्याख्या-च पुनर्धर्मं कुर्वतः सफला, धर्मफलत्वात् जन्मनः, न च व्रतं विना धर्मः, इत्यतो व्रतं प्रपत्स्यावहे ।।२५।।
इत्थं तद्वचनात् सम्बुद्धो भृगुः प्राहएगओ संवसित्ताणं, दुहओ सम्मत्तसंजुया । पच्छा जाया गमिस्सामो, भिक्खमाणा कुले कुले ॥२६॥
व्याख्या-एकत एकस्मिन् स्थाने समुष्य सहेव वसित्वा, द्वयं च द्वयं च द्वये आवां युवां च व्यक्त्यपेक्षया, पुरुषप्राधान्याच्च पुल्लिङ्गता, सम्यक्त्वेन तत्वरुच्या देशविरत्या च संयुताः । पश्चाद्वृद्धत्वे हे जातौ ! गमिष्यामो वयं ग्रामपुरादिषु मासकल्पादिक्रमेण, प्रव्रज्य भिक्ष्यमाणा याचमानाः पिण्डादिकं, कुले कुले गृहे गृहे ज्ञात्वोञ्छेन, न त्वेकगृहे ।।२६।।
पुत्रावाहतुःजस्सऽत्थि मच्चुणा सक्खं, जस्स वत्थि पलायणं । जो जाणइ ण मरिस्सामि, सो ह कंखे सुए सिया ॥२७॥
व्याख्या-यस्य मृत्युना सह सख्यमस्ति, यस्य चास्ति पलायनं नाशनं मृत्योः, यो जानीतेऽहं न मरिष्यामि, स हुरेवार्थे, काङ्घाति प्रार्थयते श्वः आगामिदिने स्यादिदमिति ॥२७॥
न कस्यचिदिदं त्रयमस्त्यतःअज्जेव धम्म पडिवज्जयामो, जहिं पवन्ना न पुणब्भवामो । अणागयं णेव य अस्थि किंची, सद्धाखमं नो विणइत्तु रागं ॥२८॥
व्याख्या-अद्यैव धर्मं यतिधर्मं प्रतिपद्यामहे, आर्षत्वाद् यं धर्म प्रपन्ना आश्रिता न पुनर्भविष्यामः, न पुनर्जन्मानुभविष्यामः, तद्धेतुभूतकर्मापगमात् , जरामरणाद्यभावात् । किं च अनागतं अप्राप्तं नैव चास्ति किञ्चित् सुन्दरमपि विषयसौख्यादि, सर्वभावानामनन्तश: प्राप्तत्वात् । यद्वा अनागतं यत्र मृत्योरागतिर्नास्ति, तन्न किञ्चित् स्थानमस्ति, अत: श्रद्धाक्षम युक्तमिहपरलोकयोः श्रेयःप्राप्तिहेत्वनुष्ठानं कर्तुं नोऽस्माकं, विनीय अपसार्य रागं । तत्त्वतो हि
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org