SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ चतुर्द्दशमिषुकारीयाध्ययनम् अन्यच्च अब्भायंमि लोगंमि, सव्वओ परिवारिए अमोहाहिं पडतीहिं, गिहंसि न रई लभे ॥ २१ ॥ व्याख्या - अभ्याहते पीडिते लोके जने, सर्वतः सर्वासु दिक्षु परिवारिते परिवेष्टिते, अमोघाभिरवन्ध्यशस्त्रालीभिः पतन्तीभिः, गृहे गृहवासे न रतिमासक्तिं लभावहे । यथा वागुरया परिवेष्टितो मृगोऽमोघैः स्वशस्त्रैर्व्याघेनाहतो न रतिं लभते । एवमावामपि ||२१|| भृगुः कथयति के अब्भाहओ लोओ, केण वा परिवारिओ । का वा अमोहा वुत्ता, जाया चिंतावरो हुम्मि ॥२२॥ व्याख्या - केन व्याधतुल्येनाभ्याहतो लोकः ? केन वा वागुरास्थानीयेन परिवारितः ? का वा अमोघा ? अमोघप्रहरणोपमा अभ्याहतक्रियां प्रति प्रकरणतयोक्ता ? हे जातौ ! पुत्रौ ! चिन्तापरो भवामि । ततो ममावेदयतमिममर्थम् ! ||२२|| पुत्राववदताम्— मच्चुणाऽब्भाहओ लोगो, जराए परिवारिओ । अमोहा रयणी वुत्ता, एवं ताय वियाणह ॥ २३॥ २१९ व्याख्या- - मृत्युनाभ्याहतो लोकस्तस्य सर्वेष्वपि भावात्, जरया परिवारितस्तस्या एव लोकाभिघातत्वात्, अमोघा रजन्य उक्ता दिवसाश्च तत्पतने ह्यवश्यं जनाभिघाताः, हे तात ! एवं विजानीहि ! ||२३|| किञ्च जा जा वच्च रयणी, न सा पडिनियत्तइ । अधम्मं कुणमाणस्स, अहला जंति राइओ ॥ २४॥ व्याख्या-या या व्रजति रजनी दिनं च न सा प्रतिनिवर्त्तते नागच्छति, तदागमने हि सर्वदा सैवैका जन्मरात्रिः स्यात्, ततो न द्वितीया मरणरात्रिः स्यात् । ततश्चाऽधर्मं कुर्वतो जन्तोरफला यान्ति रात्रयः, अधर्ममूलं च ग्रहितेत्यायुषोऽनित्यत्वादधर्मकरणे च तस्य निष्फलत्वात्तत्त्याग एव श्रेयान् ||२४|| Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy