________________
२१८
श्रीउत्तराध्ययनदीपिकाटीका-१ आत्मास्तित्वमूलत्वात् सकलधर्मानुष्ठानस्य तन्निराकरणायाह भृगुःजहा य अग्गी अरणी असंतो, खीरे घयं तिल्लमहा तिलेसु। एमेव जाया सरीरंमि सत्ता, संमुच्छई नासइ नावचिढे ॥१८॥
व्याख्या-चः अवधारणे, यथैवाग्निररणितोऽग्निमथनकाष्ठादसन्नविद्यमान एव सम्मूछति, तथा क्षीरे घृतं, तिलेषु तैलं, एवमेव हे जातौ ! पुत्रौ ! शरीरे सत्वाः प्राणिनः सम्मूर्च्छन्ति । पूर्वमसन्त एव शरीराकारपरिणतभूतसमुदयादुत्पद्यन्ते । तथा चाहुः"पृथिव्यप्तेजोवाय्वाकाशा इति तत्वानि, एतेभ्यश्चैतन्यं जायते, मद्यालेभ्यो मदशक्तिवत्" । तथा 'नासइ' नश्यत्यभ्रपटलवत् , न पुनरवतिष्ठते, शरीरनाशे तन्नाशात् , यद्वा शरीरे सत्यप्यमी सत्त्वा नश्यन्ति, नावतिष्ठन्ते जलबुद्बुदवत् ॥१८॥
पुत्रौ कथयत:नो इंदियगिज्झो अमुत्तभावा, अमुत्तभावावि य होइ णिच्चो । अज्झत्तहेउं निययऽस्स बंधो, संसारहेउं च वयंति बंधं ॥१९॥
व्याख्या-नो निषेधे, आत्मा इन्द्रियैः श्रोत्राद्यैर्ग्राह्यः, अमूर्तभावात् इन्द्रियग्राह्यरूपाद्यभावात् । अमूर्तभावादपि च भवति नित्यः, यद्दव्ये सत्यमूर्तं तन्नित्यं, व्योमवत् , न चैवममूर्त्तत्वादेव तस्य सम्बन्धाऽसम्भवः, यतः-'अज्झत्त'त्ति अध्यात्मशब्देनात्मस्था मिथ्यात्वाद्या इहोच्यन्ते, ततस्तद्धेतुस्तन्निमित्तो नियतो निश्चितो बन्धः कर्मभिः संश्लेषः, यथा अमूर्त्तस्यापि नभसो मूर्तेर्घटादिभि: सम्बन्धः, एवमस्यापि कर्मभिर्मूतैरपि सम्बन्धो न विरुद्ध्यते । तथा संसारहेतुं च वदन्ति बन्धमिति । यत एवमस्तत्यात्मा नित्योऽत एव भवान्तरयायी, तस्य चाऽसम्बन्धादेव मोक्षः ॥१९॥
ततःजहा वयं धम्ममजाणमाणा, पावं पुरा कम्ममकासि मोहा ।
ओरुज्झमाणा परिरक्खयंता, तंणेव भुज्जो वि समायरामो ॥२०॥
व्याख्या-यथा वयं[धर्मं]सम्यग्दर्शनादिकमजानानाः पापं पापहेतुकं कर्म पुरा पूर्वमकाणं मोहात् तत्वाऽज्ञानात् , अवरुद्धयमाना गृहान्निर्गममलभमानाः, परिरक्ष्यमाणा अनुजीविभिरनुपाल्यमानाः, तदिति पापकर्म नैव भूयोऽपि समाचरामोऽनुतिष्ठामः । यतः प्राप्तमस्माभिर्वस्तुतत्वमिति । 'सर्वत्र वाऽस्मदो द्वयोः' इति द्वित्वेऽपि बहुवचनम् ॥२०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org