________________
२१७
चतुर्दशमिषुकारीयाध्ययनम्
व्याख्या-परिव्रजन् विषयसुखलाभार्थमितस्ततो भ्रमन् , अनिवृतकामः, आर्षत्वात् अह्नि रात्रौ चाहनिशं परितप्यमानः, तदनाप्तौ समन्ताच्चिन्ताग्निना दह्यमानः, अन्ये जनाः, यद्वान्नं भोजनं तदर्थं प्रमत्तः, तत्कृत्याासक्तचेता अन्यप्रमत्तः अन्नप्रमत्तो वा, धनमन्वेषयन् विविधोपायैः, 'पप्पोइ'त्ति प्राप्नोति मृत्यु पुरुषो जरां च ॥१४॥
किञ्चइमं च मे अत्थि इमं च णत्थि, इमं च मे किच्चमिमं अकिच्चं । तं एवमेवं लालप्पमाणं, हरा हरंति त्ति कहं पमाओ ॥१५॥
व्याख्या-इदं च मेऽस्ति स्वर्णरूप्यादि, इदं च नास्ति पद्मरागादि । इदं च मे कृत्यं गृहप्रकारादि, इदं मे अकृत्यं आरब्धमपि वाणिज्यादि न कर्तुमुचितं । तं पुरुषं एवमेवं वृथैव लालप्यमानं अत्यर्थं व्यक्तवावदन्तं, हरन्त्यायुरिति हरा दिनरजन्यादयः, व्याधिविशेषा वा हरन्ति भवान्तरं नयन्ति, इत्यस्माद्धेतोः कथं प्रमादो धर्मे कर्तुं युक्तः ? ॥१५॥ इति सूत्रषट्कार्थः ॥
अथ तौ धनादिभिर्लोभयितुं पुरोहितः प्राहधणं पभूयं सह इत्थियाहिं, सयणा तहा कामगुणा पकामं । तवं कए तप्पइ जस्स लोको, तं सव्व साहीणमिहेव तुब्भं ॥१६॥
व्याख्या-धनं प्रभूतं सह स्त्रीभिः, स्वजनाः पितृपितृव्याद्याः, तथा कामगुणाः शब्दाद्याः प्रकामं अतिशायिनः सन्ति । तपः कष्टानुष्ठानं यस्य धनादेः कृते निमित्तं लोकस्तत्सर्वं स्वाधीनमात्मायत्तमिहैवास्मिन्नेव गृहे युवयोरस्तीति शेषः । यद्यपि स्त्रियस्तयोस्तदा न सन्ति तथापि लोकमान्यत्वाद्योग्यतास्तीति तासां कथनम् ।।१६।।
पुत्रावाहतुःधणेण किं धम्मधुराहिगारे, सयणेण वा कामगुणेहिं चेव । समणा भविस्साम गुणोघधारी, बहिविहारा अभिगम्म भिक्खं ॥१७॥
व्याख्या धनेन किं ? न किञ्चिदित्यर्थः, धर्म एवातिसात्त्विकैरुह्यमानतया धूरिव धर्मधुरा, तदधिकारे तत्प्रस्तावे, स्वजनेन वा कामगुणैश्च किं ? तथा चोक्तं-"न प्रजया, न धनेन, न त्यागेनैकेनामृतत्वमानशुः" इत्यादि । तत आवां श्रमणौ भविष्यावः, गुणौघं सम्यग्दर्शनादिकं धारयत इत्येवंशीलौ गुणौघधारिणौ, बहिामनगरादिभ्यो बहिर्वत्तित्वा द्रव्यतः, भावतश्च क्वचिदप्रबुद्ध (प्रतिबद्ध)त्वाद्विहारो विहरणं ययोस्तौ बहिर्विहारौ, अभिगम्य भिक्षां शुद्धोञ्छं भुञ्जानौ ॥१७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org