________________
२१६
श्रीउत्तराध्ययनदीपिकाटीका - १
वेया अहीया न भवंति ताणं, भुत्ता दिया निंति तमंतमे णं । जाया य पुत्ता न भवंति ताणं, को नाम ते अणुमन्नेज्ज एयं ॥ १२ ॥ व्याख्या - वेदा अधीता न भवन्ति त्राणं शरणं, उक्तं हि
अकारणमधीयानो, ब्राह्मणस्तु यधिष्ठिर ! |
दुः कुलेनाप्यधीयन्ते, शीलं तु मम रोचते ॥१॥ [] शिल्पमध्ययनं नाम, वृत्तं ब्राह्मणलक्षणं ।
वृत्तस्थं ब्राह्मणं प्राहु-र्नेतरान् वेदजीवकान् ॥२॥ []
तथान्तर्भावितणिगर्थत्वाद्भोजिता द्विजा नयन्ति प्रापयन्ति, तमसोऽपि यत्तमस्तस्मिन् अतिरौद्रे रौरवादिनरके, णं अलङ्कारे, ते भोजिताः कुमार्गे पशुवधादावेव प्रवर्त्तन्ते, अतस्तेषां निस्तारकत्वं निरस्तं, जाताश्चोत्पन्नाः पुत्रा नरकादौ पततां त्राणं न भवन्ति । उक्तं च वेदानुगैरपि
यदि पुत्राद्भवेत् स्वर्गो, दानधर्मो न विद्यते । मुषतस्तत्र लोकोऽयं, दानधर्मो निरर्थकः ॥१॥ [ ] बहुपुत्रा दुली गोधा, ताम्रचूडा तथैव च ।
तेषां च प्रथमं स्वर्गः, पश्चाल्लोको गमिष्यति ॥२॥ [ ]
ततः को नाम ? न कोऽपीत्यर्थः, यस्ते तवानुमन्येत वचनं शोभनमित्यनुजानीयात् सविवेकः ? एतद्वेदाध्ययनादिवाक्यत्रयोत्तरम् ॥ १२॥
अथ भुक्त्वा भोगानिति चतुर्थोपदेशप्रतिवचनमाहखणमित्तसोक्खा बहुकालदुक्खा, पकामदुक्खा अणिगामसोक्खा संसारमोक्खस्स विपक्खभूया, खाणी अणत्थाण उ कामभोगा ॥ १३॥ व्याख्या - क्षणमात्रसौख्यास्तथा बहुकालं नरकादिषु दुःखं येभ्यस्ते बहुकाल - दुःखाः, प्रकाममतिशयेन दुःखं येभ्यस्ते प्रकामदुःखाः, अनिकामसौख्या अप्रकृष्टसुखाः । ईदृशा अप्यायतौ किं शुभफलाः स्युः ? अत आह— संसारान्मोक्षो विश्लेषः संसारमोक्षो निर्वृत्तिस्तस्य विपक्षभूतास्तद्वारकतया अत्यन्तप्रतिकूलाः खानिरनर्थानामिहलोकदुःखाप्तिरूपाणां, तुरेव, कामभोगा इति ॥ १३ ॥
अनर्थखनित्वं स्पष्टयति
परिव्वयंते अनियत्तकामे, अहो य राओ परितप्पमाणे । अन्नप्पमत्ते धणमेसमाणे, पप्पोइ मच्चुं पुरिसो जरं च ॥१४॥
Jain Education International 2010_02
>
For Private & Personal Use Only
www.jainelibrary.org