SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २१५ चतुर्दशमिषुकारीयाध्ययनम् तस्मात्अहिज्ज वेए परिविस्स विप्पे, पुत्ते परिठप्प गिहंसि जाया । भोच्चाण भोए सह इत्थियाहिं, आरण्णया होह मुणी पसत्था ॥९॥ व्याख्या-अधीत्य वेदान् , परिवेष्य भोजयित्वा विप्रान् , तथा पुत्रान् परिष्ठाप्य कलाभार्याग्रहणादिना गृहधर्मे निवेश्य, गृहे हे जातौ ! हे पुत्रौ ! भुक्त्वा भोगान् सह स्त्रीभिः, आरण्यको आरण्यव्रतधारिणौ होह भवतं युवां मुनी सुप्रशस्तौ श्लाघ्यौ । इत्थमेव ब्रह्मचर्याद्याश्रमव्यवस्था । उक्तं हि ब्रह्मचारी गृहस्थश्च, वानप्रस्थो यतिस्तथा ॥[ ] इहीधीत्य वेदानिति ब्रह्मचर्याश्रमः, परिवेष्य विप्रानिति गृहस्थाश्रमः, आरण्यकाविति वानप्रस्थाश्रमः, मुनिग्रहणेन च यत्याश्रम उक्तः ॥९॥ इत्थं तेनोक्ते कुमारको यदकार्डी तदाहसोयग्गिणा आयगुर्णिधणेणं, मोहानिलपज्जलणाहिएणं । संतत्तभावं परितप्यमाणं, लोलप्पमाणं बहुहा बहुं च ॥१०॥ व्याख्या-सुतवियोगचिन्तनोत्थं मनोदुःखं शोकस्तेन शोकाग्निना, आत्मनो गुणा आत्मगुणाः कर्मक्षयोपशमादिजाः सम्यक्त्वाद्याः, ते इन्धनं दाह्यतया यस्य स तथा, यद्वा अनादिकालसहचारित्वेन रागादयो वात्मगुणास्ते इन्धनमुद्दीपकतया यस्य स तथा, तेनात्मगुणेन्धनेन, मोहानिलादज्ञानपवनादधिकं प्रज्वलनमस्येति तेन मोहानिलप्रज्वलनाधिकेन सन्तप्तौ भावोन्तःकरणं यस्येति सन्तप्तभावं, अत एव परितप्यमानं सम्मताद्दह्यमानं, देहे तद्दाहस्यापि शोकावेशत उत्पत्तेः, लोलुप्यमानं च, तद्वियोगशङ्कोत्पन्नदुःखपशुना भृशं हृदि छिद्यमानं बहुधाऽनेकप्रकारं यथा स्यादेवं बहु लोलुप्यमानं लालप्यमानं वा ॥१०॥ पुरोहियं तं कमसोऽणुणंतं, निमंतयंतं च सुए धणेणं । जहक्कम कामगुणेहिं चेव, कुमारगा ते पसमिक्ख वक्कं ॥११॥ व्याख्या-पूर्वोक्तावस्थं पुरोहितं, [तम् इति प्रकान्तं] क्रमेण परिपाट्याऽनुनयन्तं शनैः शनैः स्वाशयेन प्रज्ञापयन्तं, निमन्त्रयन्तं च सुतौ धनेन द्रव्येण, यथाक्रमं यथाकालं कामगुणैः सुशब्दाद्यैर्निमन्त्रयन्तं, चः समुच्चये, एवेति पूर्ती कुमारकौ तौ प्रसमीक्ष्य प्रकर्षेणाऽज्ञानाच्छादितमतिमालोक्य वाक्यमुक्तवन्तौ वक्ष्यमाणम् ॥११॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy