________________
२१४
श्रीउत्तराध्ययनदीपिकाटीका-१ व्याख्या-प्रियौ वल्लभौ, तौ च तौ पुत्रावेव पुत्रको प्रियपुत्रको, द्वावपि माहनस्य स्वकर्मशीलस्य यजनयाजनादिरतस्य पुरोहितस्य शान्तिकर्तुः । स्मृत्वा सूत्रत्वात् [पुराणामेव] पौराणिकी चिरन्तनी, तत्रैव सन्निवेशे कुमारत्वे वा वर्तमानौ, जातिं जन्म, तथा सुचीर्णं सुचरितं वा, अनिदानादिनाऽनुपहतत्वात् , तपोऽनशनादि संयमं च ||५||
ते कामभोगेसु असज्जमाणा, माणुस्सएसु जे यावि दिव्वा ।
मोक्खाभिकंखी अभिजायसद्धा, तायं उवागम्म इमं उदाहु ॥६॥
व्याख्या-तौ पुरोहितपुत्रौ कामभोगेषु असजन्तौ सङ्गमकुर्वन्तौ मानुष्यकेषु, ये चापि दिव्याः, देवानां कामभोगास्तेषु च । मोक्षाभिकाङ्क्षिणौ, अभिजातश्रद्धौ उत्पन्नतत्वरुची, तातं पितरमुपागम्येदं वक्ष्यमाणमुदाहरताम् ॥६॥
यथा
असासयं दट्ट इमं विहारं, बहुअंतरायं न य दीहमाउं । तम्हा गिहिर्सि न रई लभामो, आमंतयामो चरिस्साम मोणं ॥७॥
व्याख्या-अशाश्वतं दृष्ट्वेमं प्रत्यक्षं विहारं नृत्वेऽवस्थानं, बह्वन्तरायं बहुव्याध्याद्यन्तरायं तदपि, न च नैव दीर्घमायुः सम्प्रति पल्योपमस्याऽभावात् , तस्माद् गृहे न रतिं लभावहे । अतश्चामन्त्रयावः पृच्छावो भवन्तं प्रति, यदावां चरिष्यावो मौनं मुनित्वम् ॥७॥
एवं ताभ्यामुक्तेअह ताइओ (तायगो) तत्थ मुणीण तेसिं, तवस्स वाघायकरं वयासी। इमं वयं वेदविदो वयंति, जहा न होई असुयाण लोगो ॥८॥
व्याख्या-अथ तात एव तातकस्तत्र तस्मिन् सन्निवेशेऽवसरे वा, मुन्योर्भावश्रमणयोः पुत्रयोस्तयोः कुमारयोस्तपसः शेषधर्मानुष्ठानस्य च व्याघातकरं वचनमवादीत् , इमां वाचं वेदविदो वदन्ति, यथा न भवत्यसुतानामजातपुत्राणां लोकः परलोकः, यतः पुत्रं विना पिण्डदानाद्यभावेन गत्याद्यभावात् । तथा च वेदवचः-"अनपत्यस्य लोका न सन्ति" । तथान्यैरप्युक्तम्
पुत्रेण जायते लोक, इत्येषा वैदिकी श्रुतिः । अथ पुत्रस्य पुत्रेण, स्वर्गलोके महीयते ॥१॥[ ] अपुत्रस्य गति स्ति, स्वर्गों नैव च नैव च । गृहधर्ममनुष्ठाय, ततः स्वर्गे गमिष्यते ॥२॥[ ]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org