________________
चतुर्दशमिषुकारीयाध्ययनम् ॥
अथ चतुर्दशमिषुकारीयाख्यमनिदानफलवाच्यध्ययनं । इषुकाराज्जातं इषुकाराय हितं वेतीषुकारीयं । अस्य प्रस्तावना) इषुकारवक्तव्यतोच्यते
पुरा यौ गोपदारको चित्रसम्भूतयोः सुहृदौ पूर्वभवे आस्तां, तौ साध्वनुकम्पया लब्धसम्यक्त्वौ कालं कृत्वा स्वर्गाच्च्युत्वा क्षितिप्रतिष्ठिते पुरे इभ्यकुले द्वौ बन्धू जातौ । तत्र तयोरन्ये चत्वार इभ्यसुता वयस्या जाताः, भोगान् भुङ्क्त्वा स्थविराणामन्ते धर्मं श्रुत्वा सर्वे प्राव्रजन् । चिरं संयमं प्रपाल्य भक्तं प्रत्याख्याय सौधर्मे नलिनीगुल्मविमाने षडपि चतुःपल्योपमस्थितिदेवा जाताः, तेषु गोपवर्जा देवाश्चत्वारश्च्युत्वा कुरुदेशेषु इषुकारपुरे इषुकारनामा राजाऽभूत् , द्वितीयस्तस्यैव कमलावतीनाममहादेवीत्वेन जातः, तृतीयोऽस्यैव राज्ञो भृगुनामा पुरोधाः, तुर्योऽस्य पुरोधसो यशानाम्नी भार्याभूत् । स भृगुरपुत्रः पुत्रार्थं देवदैवज्ञाप्रश्नादिषु भृशं क्लिश्यति । अथ तौ गोपदेवौ भृगुगृहे सुतत्वेनावां उत्पत्स्याव इत्यवधिना ज्ञात्वा यतिरूपं कृत्वा भृगुगृहे समेतौ । भृगुः सभार्यो धर्मं ताभ्यां पृष्टवान् । तदुक्तं श्राद्धधर्मं प्रपद्य भृगुरपत्यार्थे तावपृच्छत् । तौ द्रव्ययती प्रोचतुस्तव भविष्यतो द्वौ पुत्रौ । तौ चेल्लघू एव प्रव्रजिष्यतस्ततो त्वया तयोर्दीक्षाविघ्नो न कार्यः, तौ बहुं जनं च बोधयिष्यतः, इत्युक्त्वा तौ गतौ । काले च तौ तत्रोत्पन्नौ । तयोर्यशागर्भस्थयो गुः प्रत्यन्तग्रामे गत्वा तस्थौ । तत्र पुत्रौ जातौ । वर्द्धमानौ चैतौ मा प्रव्रजतां कथमपीति मातृपितृभ्यां व्युद्ग्राहितौ, यथैते साधवो मनुष्यादिमांसाहाराः, मैतेषामन्ते गच्छतमिति । अन्यदा तौ रममाणौ साधून् दृष्ट्वा भिया वटमारूढौ । पूर्वात्तान्नपानेषु साधुषु तेषु वटस्यैवाधः स्थित्वा भुञ्जानेषु स्वाभाविकं भक्तपानं तौ पश्यन्तौ, मांसाशिनोऽमीति पित्रोक्तं व्यर्थमासीदिति ध्यायन्तौ, पुनश्चेदृशा भिक्षवः क्वापि दृष्टा इति विमृशन्तौ जाति स्मृत्वा सम्बुद्धौ वटादुत्तीर्य साधून्नत्वा गृहे गत्वा मातापितरौ प्रबोध्य ताभ्यां सह प्रव्रजितौ । देव्या बोधितो राजा देवीयुक् प्राव्रजीत् । षडपि केवलमाप्य सिद्धाः ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org