________________
त्रयोदशं चित्रसम्भूतीयाध्ययनम्
२११ कार्य इति बुद्धिर्नास्ति, किन्तु त्वं गृद्धः प्रसक्तोऽसि आरम्भपरिग्रहेषु । मोघं निष्फलं यथास्यादेवं एतावान् विप्रलापो विविधव्यर्थवागालापः कृतो मयेति शेषः, अथ गच्छामि राजन्नामन्त्रितोऽसि, अनेकार्थत्वाद्धातूनां पृष्टोऽसि । यतोऽनाथवे उपेक्षैव श्रेयसी ॥३३॥
इत्थमुक्त्वा गतो मुनिः, यथायं मुनिहिताय तस्मै अश्रद्धान्वितायापि उपदिदेश, तथाऽन्यस्यापि छद्मस्थस्याऽन्यहितोक्तौ न दोषः, वक्तुररागद्वेषस्यैकान्तधर्मभावादेव
पंचालरायावि य बंभदत्तो, साहुस्स तस्सावयणं अकाउं । अणुत्तरे भुंजिय कामभोगे, अणुत्तरे सो नरए पविट्ठो ॥३४॥
व्याख्या-अपिः पुनरर्थः, चः पूत्तौं, ततः पञ्चालराजः पुनर्ब्रह्मदत्तस्तस्य साधोर्वचनं अकृत्वा वज्रतण्डुलवद् गुरुकर्मतयाऽत्यन्तदुर्भेदः, अनुत्तरान् सर्वोत्तमान् कामभोगान् भुक्त्वा, अनुत्तरे स्थित्यादिना सर्वनरकज्येष्ठे अप्रतिष्ठाने [स ब्रह्मदत्तः] नरके प्रविष्टस्तत्रोत्पन्न इति ॥३४।।
अनेन निदानस्य नरकान्तफलं दर्शितं । अथ प्रसङ्गाच्चित्रवृत्तान्तमाहचित्तो वि कामेहिं विरत्तकामो, उदत्तचारित्ततवो महेसी । अणुत्तरं संजम पालयित्ता, अणुत्तरं सिद्धिगई गओ ॥३५॥ त्ति बेमि
व्याख्या-चित्रोऽपि पूर्वं चित्राह्वोऽपि, अपिः पुनरर्थे, कामेभ्योऽभिलषणीयशब्दादिभ्यो विरक्तः पराङ्मुखीभूतः कामोऽभिलाषोऽस्येति विरक्तकामः, उदात्तं प्रधानं चारित्रं सर्वविरतिरूपं, तपश्च द्वादशविधं यस्य स उदात्तचारित्रतपाः (पाठान्तरे-उदग्रचारित्रतपाः) महेषी महर्षिा , अनुत्तरं सर्वसंयमस्थानोपरिवत्तिनं संयममाश्रवविरत्यादिकं पालयित्वाऽनुत्तरां सर्वलोकाकाशोपरिस्थामतिप्रधानां वा सिद्धिगतिं गत इति ब्रवीमीति प्राग्वत् ॥३५॥
इति निदानफले त्रयोदशं चित्रसम्भूतीयाध्ययमुक्तम् ॥१३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org