________________
२१०
श्रीउत्तराध्ययनदीपिकाटीका-१ सदाचारं अनुव्रजामोऽनुसरामः, पङ्कजलोपमाः कामभोगाः, ततस्तैर्बद्धा न तत्त्यागान्निरपायं स्थलमिव मुनिमार्गं जानन्तोऽपि अनुगन्तुं शक्नुमः ॥३०||
मुनिरनित्यतां स्पष्टयतिअच्चेइ कालो तुरियंति राइओ, न यावि भोगा पुरिसाण निच्चा । उविच्च भोगा पुरिसं चयंति, दुमं जहा खीणफलं व पक्खी ॥३१॥
व्याख्या अत्येति अतिक्रामति कालो यथायुष्ककालः, त्वरयन्ति शीघ्रं यान्ति रात्रयो दिना अपि सहचारित्वात् , ततोऽनेनायुषोऽनित्यतोक्ता, यतः
क्षणयामदिवसमास-च्छलेन गच्छंति जीवितदलानि ।
इति विद्वानपि कथमिह, गच्छसि निद्रावशं रात्रौ ॥१॥[ ] न च भोगा अपि पुरुषाणां नित्याः, न केवलमायुरनित्यं, किन्तु भोगा अपि अनित्याः, यतस्ते उपेत्य स्वप्रवृत्त्या, न तु पुरुषेच्छया, भोगाः पुरुषं त्यजन्ति । द्रुमं यथा क्षीणफलं, वेत्यौपम्ये, ततः पक्षीव, फलोपमानि हि पुण्यानि, ततस्तदपगमे क्षीणफलं वृक्षमिव पुरुषं पक्षिवद्रोगा विमुञ्चन्तीति ॥३१।।
यत एवमत:जइ तं सि भोगे चइउं असत्तो, अज्जाइं कम्माइं करेहि रायं । धम्मेट्ठिओ सव्वपयाणुकंपी, तो होहिसि देवो इओ विउव्वी ॥३२॥
व्याख्या-यदि तावदसि त्वं भोगांस्त्यक्तुमशक्तोऽक्षमः (पाठान्तरे-'जइ ताव भोगे चइओ असत्तो 'त्ति) स्पष्टमुभयत्र चायमाशय एव, अनित्यभोगत्यागाद्भिक्षुत्वमेव तवार्ह, यदि च तत्राऽशक्तस्तदागर्याणि हेयधर्मेभ्यो हिंसादिभ्यो दूरं यातानि शिष्टाहा॑णि कर्माणि अनुष्ठानानि कुरु ! हे राजन् ! धर्मे गृहिधर्मेऽपि स्थितः सन् सर्वप्रजानुकम्पी सर्वात्मदयापरः, तत आर्यकर्मतो भविष्यसि देवो वैमानिकः, इतो नृभवात् 'विउव्वी' वैक्रियदेही । गृहिधर्मस्यापि सम्यक्त्वदेशविरतिरूपस्य स्वर्गफलत्वात् । एतत्साधुवचनं धर्मस्य स्वर्गेण सहाऽन्यथाऽनुपपत्तिज्ञप्त्यै छाद्मस्थ्याद्वा ॥३२॥
एवमुक्तेऽपि तं किञ्चिदऽप्रपद्यमानं अविनीतं च ज्ञात्वा मुनिराहन तुज्झ भोगे चइऊण बुद्धी, गिद्धो सि आरंभपरिग्गहेसु । मोहं कओ एत्तिउं विप्पलावो, गच्छामि रायं आमंतिओ सि ॥३३॥ व्याख्या-तव, भोगान् अनार्यकर्माणि च त्यक्तुं, यद्वा भोगांस्त्यक्त्वा धर्मो मया
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org