________________
त्रयोदशं चित्रसम्भूतीयाध्ययनम्
२०९
व्याख्या - अहमपि न केवलं त्वमेवेत्यर्थः, जानामि, यथा इह जगति हे साधो ! यन्मम त्वं साधयसि वक्षि वाक्यमुपदेशवच एतत् तत्किं ? यत्त्वं विषयान् कथं न परित्यजसीति वाक्यं । किन्तु भोगाः शब्दादय इमे प्रत्यक्षाः सङ्गकराः प्रतिबन्धोत्पादका भवन्ति, ये दुर्जया दुस्त्यजा वा हे आर्य ! अस्मादृशैर्गुरुकर्मभिर्जीवैः (पाठान्तरे - ' अहं पि जाणामि जो इत्थ सारो' अहमपि जानामि योऽत्र सारो, यदिह नृभवे सारं चारित्रधर्मः) चकारस्य गम्यत्वात् यच्च त्वमेवं साधयसि, शेषं प्राग्वत् ॥२७॥
किञ्च
,
हत्थिणपुरंमि चित्ता, दट्टणं नरवई महड्डियं । कामभोगेसु गिद्धेणं, नियाणमसुहं कडं ॥ २८ ॥
व्याख्या- हस्तिनागपुरे, 'चित्ता' इत्यकारोऽलाक्षणिकः, हे चित्र ! प्राग्भवे हे चित्रनामन् मुने ! दृष्ट्वा नरपतिं सनत्कुमारनामानं तुर्यचक्रिणं महद्धिकं सातिशयसम्पदं, कामभोगेषु गृद्धेनाकाङ्क्षावता निदानं जन्मान्तरे भोगाशंसारूपं अशुभं अशुभानुबन्धि कृतं, तत्र काम्यन्ते इति कामा: शब्दरूपाणि, भुज्यन्ते इति भोगाः रसगन्धस्पर्शाः ||२८|| कदाचित्तत्र कृतेऽपि ततः प्रतिक्रान्तं स्यादत आह
तस मे अप्पडिकंतस्स, इमं एयारिसं फलं । जाणमाणावि जं धम्मं, कामभोगेसु मुच्छिओ ॥ २९ ॥
व्याख्या- - सुब्व्यत्ययात्तस्मान्निदानान्मेऽप्रतिक्रान्तस्य तदा हि त्वया बहुधोच्यमानेऽपि न मच्चेतसः प्रत्यावृत्तिरभूदितीदमेतादृशं वक्ष्यमाणं फलं जातं । जानन्नपि यदहं धर्मं श्रुतधर्मादिकं, कामभोगेषु मूच्छितो गृद्धोऽस्मि । तदेतत्कामभोगेषु मूर्छारूपं मम निदानकर्मणः फलं । अन्यथा ज्ञानस्य फलं विरतिं जानतोऽपि मम कथं न धर्मानुष्ठानाप्तिः ? ॥२९॥
पुनर्निदानफलमेवोदाहरणतो दर्शयति
नागो जहा पंकजलावसन्नो, दट्टं थलं नाभिसमेड़ तीरं । एवं वयं कामगुणेसु गिद्धा, न भिक्खुणो मग्गमणुव्वयामो ॥३०॥
व्याख्या - नागो हस्ती यथा पङ्कप्रधानं जलं पङ्कजलमित्युच्यते, तत्रावसन्नो निमग्नः सन् दृष्ट्वापि स्थलं निर्जलभूतलं न नैवाभिसमेति प्राप्नोति तीरं, अपेर्गम्यत्वात्तीरमपि, आस्तां स्थलं, एवं पङ्कमग्नेभ इव वयं कामगुणेषु गृद्धा न भिक्षोर्मार्गं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org