________________
२०८
श्रीउत्तराध्ययनदीपिकाटीका-१ व्याख्या-न तस्य दुःखं मनोवाक्कायजं विभजन्ति विभागीकुर्युर्ज्ञातयः स्वजनाः, न मित्रवर्गाः सुहृत्समूहाः, न सुताः, न बान्धवाः, एकः स्वयं प्रत्यनुभवति वेदयते दुःखं, यतः कर्तारमेवानुयाति कर्म ॥२३||
इत्थमशरणभावनामुक्त्वैकत्वभावनामाहचिच्चा दुपयं चउप्पयं च, खित्तं गिहं धणधण्णं च सव्वं । कम्मप्पबीओ अवसो पयाई, परं भवं सुंदर पावगं वा ॥२४॥
व्याख्या-त्यक्त्वा द्विपदं भार्यादि, चतुष्पदं हस्तादि, क्षेत्रं इक्षुक्षेत्रादि, गृहं धवलगृहादि, धनं कनकादि, धान्यं शाल्यादि, चकाराद्वस्त्रादि सर्वं, कर्मैवात्मनो द्वितीयमस्येति कर्मात्मद्वितीयः, यद्वा स्वकर्मैवात्मनो द्वितीयमस्येति स्वकर्मद्वितीयः, अवशोऽस्वतन्त्रः, प्रयाति परं भवं सुन्दरं स्वर्गादि, पापकं नरकादि ॥२४॥
तमेकगं तुच्छसरीरगं से, चिईगयं दहिउं पावगेणं । भज्जा य पुत्तो वि य नाइओ य, दायारमन्नं अणुसंकमंति ॥२५॥
व्याख्या-तदेकं त्यक्तं औदारिकं शरीरकं कुत्सितं शरीरं विनाशित्वात् , एकं जीवाऽभावात् , तुच्छमसारं, 'से' तस्य, चितिगतं चिताप्राप्तं, दग्ध्वा, तुः पूर्ती, पावकेनाग्निना, भार्या च पुत्रोऽपि च, ज्ञातयश्च, दातारमिष्टकार्यकरमन्यमनुसङ्क्रामन्ति यान्ति, ते हि अनेन गृहमशुचीति तच्छरीरं बहिनिष्कास्य छटां क्षिप्त्वा जनलज्जादिना भस्मीकृत्य लौकिकेनाक्रन्द्य च कत्यहानि, पुनः स्वार्थायान्यमनुवर्त्तन्ते, न तु तच्छुद्धिं पृच्छन्ति ।।२५॥
किञ्चउवणिज्जइ जीवियमप्पमायं, वन्नं जरा हरइ नरस्स रायं । पंचालरायं वयणं सुणाहि, मा कासि कम्माइं महालयाई ॥२६॥
व्याख्या-उपनीयते ढौक्यते मृत्येव कर्मभिर्जीवितं अप्रमादं प्रमादं विनैव । आवीचीमरणतो निरन्तरमिति । सत्यपि जीविते वर्णं सुस्निग्धच्छायात्मकं जरा हरति नरस्य मनुष्यस्य राजन् ! अतो हे पञ्चालराज ! पञ्चालदेशोद्भवनृप ! वचनं शृणु ! मा कार्षीः कर्माणि असदारम्भरूपाणि, महालयान्यतिमहति, महान् वा आलयः कर्माश्लेषो येषु तानि मांसभक्षणादिनीति ॥२६।।
नृपः प्राहअहं पि जाणामि जहेह साहू, जं मे तुमं साहसि वक्कमेयं । भोगा इमे संगकरा हवंति, जे दुज्जया अज्जो अम्हारिसेहिं ॥२७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org