________________
त्रयोदशं चित्रसम्भूतीयाध्ययनम्
२०७ व्याख्या-यः सम्भूतः पुरासीत् , स त्वं इदानीमस्मिन् काले, 'सिं' पूर्ती, यद्वा 'दाणिसिं'ति देश्युक्त्या इदानीं राजा महानुभागो महद्धिकः पुण्यफलोपेतश्च जातोऽसि, चाण्डालस्यापीहक्चक्रिऋद्ध्या दृष्टफलत्वेन त्वं त्यक्त्वा भोगान् द्रव्यचयान् कामान् वा अशाश्वतान् , आदीयते सद्विवेकैरित्यादानश्चारित्रधर्मस्तद्धेतोरभिनिःक्रम आभिमुख्येन प्रव्रजेः ! (पाठान्तरे-'आयाणमेवाणुचिन्तयाहि' आदानमेवानुचिन्तय) ॥२०॥
एवमकरणे दोषमाहइह जीविए राय असासयंमि, धणियं तु पुण्णाई अकुव्वमाणो । से सोयइ मच्चुमुहोवणीए, धम्मं अकाऊण परम्मि लोए ॥२१॥
व्याख्या-इह जीविते मनुष्यसम्बन्धिन्यायुषि राजन्नशाश्वते 'धणियं' अत्यर्थं, तुः एवार्थे, चञ्चलधिया पुण्यान्यकुर्वाणः स जीवः शोचते पश्चात्तापपरः स्यात् । मृत्युमुखं श्लथीभवद्वन्धनाद्यवस्थं उपनीतः प्राप्तः कर्मभिः, धर्ममकृत्वा परस्मिन् लोके गतः शोचते, नरकादिष्वसह्याऽसातवेदनार्दितः शशिनृपवत् किं मया तदैव पुण्यं न कृतमिति खिद्यते, तदा च स्वजनैर्न त्राणम् ॥२१॥
जहेह सीहो व मियं गहाय, मच्चू णरं नेइ हु अंतकाले । न तस्स माया व पिया व भाया, कालम्मि तस्संसहरा भवंति ॥२२॥
व्याख्या-यथेह लोके सिंहः, वा इति पूर्ती विकल्पार्थे वा, ततो व्याघ्रादिर्वा मृगं गृहीत्वा नयति, एवं मृत्युर्नरं नयति, हुः एवार्थे, अन्तकाले, यथासौ सिंहेन नीयमानो न तस्मै अलं, एवं जन्तुरपि मृत्युना नीयमानो न तस्मै अलं, तस्य मृत्युना नीयमानस्य माता वा पिता वा भ्राता वा, काले तस्मिन् जीवितान्ते, अंशं स्वायुर्भागं धारयन्ति ददति मृत्युना नीयमानं रक्षन्तीत्यंशधराः, एवंविधा ते मात्रादयो न भवन्ति । यथा नृपादौ स्वजनसर्वस्वं हरति सति स्ववित्तदानात् स्वजनैस्तद्रक्ष्यते, नैवं तैः स्वजीवितव्यांशदानतस्तदायुर्भागोऽवधार्यते । अथवा अंशो दुःखभागस्तं हरन्तीत्यंशहराः, एवंविधा अपि ते मात्रादयो न भवन्ति । उक्तं हि
न पिता भ्रातरः पुत्रा, न भार्या न च बान्धवाः ।
शक्ता मरणात् त्रातुं, मग्नाः संसारसागरे ॥१॥[ ] ॥२२॥ न तस्स दुक्खं विभयंति णाइओ, न मित्तवग्गा ण सुता ण बंधवा । एगो सयं पच्चणुहोइ दुक्खं, कत्तारमेवं अणुजाइ कम्मं ॥२३॥
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org