________________
२०६
श्रीउत्तराध्ययनदीपिकाटीका-१ तत्परिहितं । अथान्यदा तेन स्मित्वा तत्पूर्वोक्तवचनं तस्याः स्मारितं, तदा सा विलक्षीभूता । तथा सर्वे कामाः शब्दाद्या दुःखावहा मृगादीनामिव, यतो दुःखाप्तिहेतुत्वात् , मत्सरेणूंविषादाद्याश्चित्ताधिकृत्त्वान्नरकादिहेतुत्वाच्च ॥१६।।
बालाभिरामेसु दुहावहेसु, न तं सुहं कामगुणेसु रायं । विरत्तकामाण तवोधणाणं, जं भिक्खुणो सीलगुणे रयाणं ॥१७॥
व्याख्या-बालानामविवेकानामभिरामेषु चित्तरतिदेषु दुःखावहेषु उक्तरीत्या दुःखप्रापकेषु न तत्सुखं कामगुणेषु मनोज्ञशब्दादिषु सेव्यमानेषु, हे राजन् ! विरक्तकामानां कामविरक्तानां, प्राकृतत्वाव्यत्ययः, तपोधनानां भिक्षूणां, शीलगुणयोः शीलगुणेषु वा रतानां यत्सुखम् ॥१७॥
अथ निदर्शनेनोपदेशःनरिंद जाई अहमा नराणां, सोवागजाई दुहओ गयाणं ।
जहिं वयं सव्वजणस्स वेसा, वसीय सोवागणिवेसणेसु ॥१८॥
व्याख्या-नरेन्द्र ! हे चक्रिन् ! जातिरधमा नराणां मनुष्याणां मध्ये श्वपाकजातिश्चाण्डलजातिस्तां गतयोर्द्वयोरप्यावयोः साऽधमा जातिरभूत् । कदाचित्तज्जातावुत्पद्यान्यगृहे वृद्धावभूवेति । यस्यां जातावावां सर्वजनस्य द्वेष्यावप्रीतिकराववसाव श्वपाकानां निवेशनेषु गृहेषु ॥१८॥
कदाचित्तत्रापि विज्ञानविशेषादिना हीलनीयौ स्यातामित्याहतीसे य जाईइ उ पावियाए, वुच्छा मु सोवागणिवेसणेसु । सव्वस्स लोगस्स दुहंछणिज्जा, इहं तु कम्माई पुरेकडाइं ॥१९॥
व्याख्या-तस्यां च जातौ श्वपाकसम्बन्धिन्यां, तुर्विशेषणे, ततश्च शेषजातिभ्यः कुत्सितत्वं विशिनष्टि, पापिकायां 'वुच्छा' उषितौ 'मु' इत्यावां श्वपाकनिवेशनेषु सर्वस्य लोकस्य जुगुप्सनीयौ । इह जन्मनि 'तु' पुनः कर्माणि शुभानुष्ठानानि पुराकृतानि पूर्वजन्मार्जितानि विशिष्टजात्यादीनि फलितानीति, तत उत्पन्नप्रत्ययाभ्यामावाभ्यां पुनस्तदर्जनायैव यत्न: कार्यो न तु विषयाकुलैः स्थेयम् ।।१९।।
अतःसो दाणि सिं राय महाणुभागो, महिड्डिओ पुण्णफलोववेओ। चइत्तु भोगाइं असासयाई, आयाणहेउं अभिनिक्खमाहि ॥२०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org