________________
२०४
श्रीउत्तराध्ययनदीपिकाटीका - १
ऋद्धिः द्युतिश्च तस्य प्राग्भवनाम्नश्चित्राख्यस्य ममापि च यस्मादर्थे प्रभूता बह्वी । अयमर्थ:- हे सम्भूत ! यथा त्वमात्मानं महानुभागादिविशेषणयुतं वेत्सि तथा चित्रनाम्नो ममापि गृहीत्वे ईगेव ऋद्धिरासीत् ॥११॥
तत्किं दीक्षित इत्याह
महत्थरूवा वयणप्पभूया, गाहाणुगीया णरसंघमज्झे ।
जं भिक्खुणो सीलगुणोववेया, इहऽज्जयंते समणो मि जाओ ॥१२॥ व्याख्या - इहायं वृद्धाम्नाय :- निदानो ब्रह्मदत्तचक्र्यभूत्, तथाऽयमनिदानः श्रेष्ठिकुले चक्रिसमर्द्धिः प्रातः कोटिस्वर्णादिदाता, प्रत्यहं प्रासादादिक्षेत्राणि स्पृशन् महागजतुरगादिऋद्धिः, बहुशतस्त्रीपरिवृतः, प्रासादेषु नाट्यं कारयन् भोग्यभूत्, ततः काले दीक्षां लेभे । 'महेत्थे 'त्ति महानऽपरिमितो द्रव्यपर्यायात्मकतयाऽर्थो वाच्यं यस्य तन्महार्थरूपं स्वरूपं यस्याः, महतो वाऽर्थान् जीवादितत्वान् निरूपयति दर्शयतीति महार्थरूपा, वचनेनाऽप्रभूताऽल्पभूतावा स्तोकाक्षरा, गीयते इति गाथा धर्मार्थसूत्रश्रेणिः, अनु इति अर्हद्गणादिभ्यः पश्चाद्गीताऽनुगीता, अर्हदादिभ्यः श्रुत्वोक्ता स्थविरैरित्यर्थः, अनुकूलं वा गीताऽनुगीता, श्रोतुरनुकूलैव देशना क्रियते इति ख्यापितं स्यात् । नराणां सङ्घ समूहस्तन्मध्ये, यां गाथां श्रुत्वा भिक्षवः, शीलं चारित्रं, गुणज्ञानं, ताभ्यामुपेताः, इह जगति अर्जयन्ति पठनश्रवणतदर्थानुष्ठानादिभिर्लाभं । इह प्रवचने यां गाथां क्रियया मुनय आवर्जयन्ति सोपस्कारत्वात्सूत्रस्य, सा गाथा मयापि श्रुता, ततः श्रमणोऽस्म्यहं जातः, न तु दुःखदग्धः ॥१२॥
इत्थं मुनिनोक्ते ब्रह्मदत्तः स्वऋद्ध्या निमन्त्रयति
उच्चोदए महु कक्के य बंभे, पवेड्या आवसहा य रम्मा । इमं गिहं वित्तधणप्पभूयं, पसाहि पंचालगुणोववेयं ॥१३॥
व्याख्या
- उच्चोदयो १ मधुः २ कर्क: ३ चात् मध्यः ४ ब्रह्म ५ च, एते पञ्च प्रधानाः प्रासादाः प्रवेदिताः, मम वर्द्धकिपुरःसरैः सुरैः कृताः, आवसथाश्च शेषभवनप्रकारा रम्याः (पाठान्तरे-अतिरम्याः सुरम्या वा) एते तु यत्रैव चक्रिणो रोचन्ते तत्रैव स्युरिति वृद्धाः, किं च इदं गृहमवस्थितः प्रासादः, वित्तं द्रव्यं धनं हिरण्यादि, तेनोपेतं वित्तद्रव्योपेतं (पाठान्तरे- प्रभूतं बहु, चित्रं आश्चर्यकारि, अनेकप्रकारं वा, धनमस्मिन्निति प्रभूतचित्रधनं )
१. उच्चः १ उदयः २ मधुः ३ कर्क: ४ ब्रह्म ५ इत्यन्यटीकायाम् ।
२. 'वित्तधनोपेतं' इति पाठः उत्त. बृ. वृत्तौ । सम्पा.
३. पठन्ति च 'चित्तधणप्पभूयं' ति, तत्र प्रभूतं - बहु चित्रम् - आश्चर्यमनेकप्रकारं वा धनमस्मिन्निति प्रभूतचित्रधनं, सूत्रे तु प्रभूतशब्दस्य परनिपातः प्राग्वत् । उत्त. बृ. वृत्तौ ॥ सम्पा.
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org