________________
२०३
त्रयोदशं चित्रसम्भूतीयाध्ययनम् 'इमा' इयं नौ आवयोः षष्ठिका जातिः, 'अण्णमण्णेण'त्ति अन्योऽन्येन परस्परेण यावनिका, मिथ: साहित्यहीना ॥७॥ इति सूत्रचतुष्कार्थः ॥
इत्थं चक्रिणोक्ते मुनिराह
कम्मा णियाणपगडा, तुमे राय विचिंतिया । तेसिं फलविवागेणं, विप्पओगमुवागया ॥८॥
व्याख्या कर्माणि, निदानं भोगप्रार्थनं, तेन प्रकर्षेण कृतानि निदानप्रकृतानि निदानवशबद्धानि, त्वया राजन् विचिन्तितानि तद्धेतुभूतार्तध्यानतः कर्माण्यपि तथोच्यन्ते, तेषां फलविपाकेन शुभाऽशुभकृतविप्रयोगमुपागतौ आवां, यत्तदा त्वयाऽस्मद्वारितेनापि निदानं कृतं, तत्फलमेतत् , यदावयोस्तथाभूतयोरपि वियोग इति ॥८॥
इत्थं ज्ञातवियोगहेतुश्चक्री पुनः पृच्छति
सच्चसोयप्पकडा, कम्मा मए पुरा कडा । ते अज्ज परिभुंजामो किं णु चित्तो वि से तहा ॥९॥
व्याख्या-सत्यं, शौचं, ममायमनुष्ठानं, ताभ्यां प्रकटानि कर्माणि शुभानुष्ठानानि मया पुरा कृतानि यानि, तान्यद्यास्मिन् अहनि शेषतद्भवकाले च परिभुळे, तद्विपाकानि स्त्रीरत्नादिभोगद्वारेण वेदये यथा । किं प्रश्ने, नु वितर्के, चित्रोऽपि चित्रनामापि ? कोऽर्थः? त्वं 'से' इति तानि किं तथा परिभुझे ? नैव भुझे, भिक्षुकत्वात् । तव तु तानि मया सहार्जितानि शुभकर्माणि विफलानि जातानीति चर्चः ।।९।।
मुनिराहसव्वं सुचिन्नं सफलं नराणं, कयाण कम्माण न मोक्ख अस्थि ।
अत्थेहिं कामेहि य उत्तमेहिं, आया ममं पुण्णफलोववेओ ॥१०॥
व्याख्या-सर्वं सुचीर्णं तपःप्रभृति सफलं नराणां, शेषाङ्गिनां च, सुब्ब्यत्ययात् , यतः कृतेभ्योऽवश्यवेद्येभ्यः कर्मभ्यो न मोक्षोऽस्ति, ददति तानि फलमवश्यं । अथैदैव्यैः, अर्थैर्वा प्रार्थनीयैर्वस्तुभिः, कामैश्च सुशब्दाद्यैरुत्तमैर्युक्त आत्मा ममापि पुण्यफलेनोपेतोऽन्वितोऽस्ति ॥१०॥
जाणाहि संभूत महाणुभागं, महड्डियं पुण्णफलोववेयं । चित्तं पि जाणाहि तहेव रायं, इड्डी जुई तस्स वि यप्पभूया ॥११॥
व्याख्या-यथा त्वं जानासि हे सम्भूताख्य ! स्वं महानुभागं बृहन्माहात्म्यं महद्धिकं, अत एव पुण्यफलोपेतं । चित्रमपि जानीहि तथैव विशिष्टमेव हे राजन् !
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org