________________
२०२
श्रीउत्तराध्ययनदीपिकाटीका-१ "इमा णो छट्ठिया जाई, अण्णमण्णेण जाविणा" ॥ [उत्त. १३/७ उत्त.] ___ एवं श्लोकद्वयं निश्चित्यारघट्टकोऽगान्नृपपावं, राज्यलोभेन च पपाठ पूर्णश्लोकयुगं । तदा जातावेशो मूच्छितो राजाऽपतत् पृथ्व्यां तन्त्रेणारघट्टिकस्ताडितः पाणिघाताद्यैः, स रुदन्नूचे, न मयाऽपूरि, किन्तु भिक्षुणैतत्कलिमूलेन, तदाप्तसञश्चक्र्यूचे क्वासौ श्लोकपूरकोऽस्ति ? आरघट्टिकोक्त्या तद्वाटिकास्थं तं मुनि श्रुत्वा राजाऽचालीत् सबलवाहनान्त:पुरस्तदर्शनाय । दृष्टो मुनिर्वन्दितश्च, सबहुमानं उपवेशितश्चैकासने ततस्तौ मिथो यथानुभूतसुखदुःखफलविपाकमूचतुः, ततोऽवर्णि स्वऋद्धिश्चक्रिणा, उक्तस्तद्विपाकोक्तिपूर्वकं तत्त्यागश्चित्रर्षिणा।
अर्थतयोरुक्तं सूत्रे आह
चक्कवट्टी महिड्डीओ, बंभदत्तो महायसो । भायरं बहुमाणेणं, इमं वयणमब्बवी ॥४॥
व्याख्या-चक्रवर्ती महद्धिको ब्रह्मदत्तो महायशाः भ्रातरं जन्मान्तरसौन्दर्य बहुमानेन मानसस्नेहेनेदं वक्ष्यमाणं वचनमब्रवीत् ॥४॥
आसिमो भायरा दो वि अण्णमण्णवसाणुगा ।
अण्णमण्णमणुरत्ता, अण्णमण्णहिएसिणो ॥५॥ व्याख्या-यथा 'आसिमो'त्ति अभूव आवां भ्रातरौ द्वावप्यन्योऽन्यं मिथ: ‘वसाणुय'त्ति वशं आयत्ततां गच्छन्तौ यौ तावन्योऽन्यवशानुगौ, तथाऽन्योऽन्यमनुरक्तौ, तताऽन्योऽन्यहितैषिणौ, पुनः पुनरन्योऽन्यग्रहणं तुल्यचित्ततातिशयज्ञप्त्यै । मश्च सर्वत्राऽलाक्षणिकः ।।५।।
भवावाहदासा दसण्णे आसि, मिया कालिंजरे नगे । हंसा मयंगतीराए, सोवागा (चंडाला) कासिभूमिए ॥६॥
व्याख्या-दासौ दशार्णदेसे 'आसी'त्ति अभूव, मृगौ कालिञ्जरे कालिञ्जरनामनि नगे, हंसौ मृतगङ्गातीरे, श्वपाकौ चाण्डालौ काशीभूम्यां काशीजनपदे ॥६॥
देवा य देवलोए, आसि अम्हे महिड्डिया । इमा णो छट्ठिया जाई, अण्णमण्णेण जाविणा ॥७॥ व्याख्या-देवौ च देवलोके सौधर्मेऽभूव, आवां महधिकौ, न तु किल्बिषिको,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org