________________
२०१
त्रयोदशं चित्रसम्भूतीयाध्ययनम्
व्याख्या-जातिश्चाण्डलाख्या, तया पराजितोऽभिभूतो जातिपराजितः, प्राग्भवे नमुचिविप्रेण चाण्डाल इत्यपमानितः, यद्वा जातिभिर्दासादिनीचस्थानोत्पत्तिभिः, उपर्युपरिजाताभिः पराजितः पराभवं मन्यमानोऽहो अधन्योऽहं यन्नीचास्वेव जातिषूत्पन्न इति, खलु वाक्यालङ्कारे, अकार्षीन्निदानं चक्रित्वाप्तिर्मम स्तादिति । तुः पूत्तौ, हस्तिनागपुरे चुलन्यां ब्रह्मदत्त उत्पन्नः, पद्मगुल्मादिति नलिनीगुल्मविमानाच्च्युत्वा ॥१॥
स ब्रह्मदत्तः प्राग्भवे सम्भूतश्चाण्डालोऽभूदित्याहकंपिल्ले संभूओ, चित्तो पुण जाओ पुरिमतालंमि । सिट्ठिकुलंमि विसाले, धम्मं सोऊण पव्वईओ ॥२॥
व्याख्या-गङ्गातटस्थपञ्चालदेशे पुण्ड्रकाम्पील्ये सम्भूतोऽभूच्चक्री ब्रह्मदत्तः, इत्थं काम्पील्ये सम्भूतश्चक्र्यभूत चित्रः पुनर्जातः पुरिमताले । स हि चित्रमहर्षिस्तत्र सम्भूतनाम्नि बन्धौ तथा निदानयुताऽनशनं प्रपन्नेऽहो दुष्टो मोहः, चित्रा कर्मपरिणतिः, चलं चित्तमित्यादि ध्यात्वा चतुराहारत्यागान्मृत्वा पण्डितमरणेनोत्पन्नस्तत्रैव नलिनीगुल्मविमाने, ततश्च्युतो जातः पुरिमताले पुरे श्रेष्ठिकुले वणिक्प्रधानान्वये, विशाले पुत्रपौत्रादिवृद्ध्या, प्राप्तवयाश्च स्थविरान्ते धर्मं श्रुत्वा स प्रवजितः ॥३॥
ततःकंपिल्लंमि य नयरे, समागया दो वि चित्तसंभूया ।
सुहदुक्खफलविवागं, कर्हिति ते एक्कमिक्कस्स ॥३॥
व्याख्या-काम्पिल्ये च नगरे ब्रह्मदत्तोत्पत्तिस्थाने समागतौ मिलितौ द्वावपि चित्रसम्भूतौ प्राग्जन्मनाम्ना । सुखदुःखफलविपाकं सुकृतदुःकृतकर्मानुभवं कथयतः स्म तौ चित्रजीवर्षिर्ब्रह्मदत्तौ एकैकस्य मिथः । भावार्थस्तु–सुर्यानीतमन्दारदामदर्शनोत्पन्नजातिस्मृतिना ब्रह्मदत्तेन
दासा दसण्णे आसी, मिया कालिंजरे नगे । हंसा मयंगतीराए, सोवागा( चंडाला) कासिभूमिए ॥१॥ [ उत्त. १३/६]
देवा य देवलोगम्मि, आसी अम्हे महड्डिया। [उत्त. १३/७ पूर्वा.] इति सार्द्धश्लोकमुक्त्वा द्वितीयश्लोकपूरयित्रे राज्यार्द्धं यच्छामीत्युदघोषि । तच्च ग्रामपुराकरादिषु जनैः पठ्यमानं चाकर्ण्य चित्रजीवर्षिर्ज्ञानोपयोगात्ताः स्वजातीर्जज्ञे ।
अथ स श्रीऋषभोक्त्या चक्रिगति जानन्नपि स्नेहातिरेकात्तं प्राग्भवबन्धुं सम्भूतजीवं बोधये प्रस्थितः, प्राप्तः क्रमेण काम्पिल्यं, स्थितस्तद्वहिरुद्याने, श्रुतश्चारघट्टिकपठ्यमानः स सार्द्धः श्लोकोऽपूरि च तेन स द्वितीयश्लोको यथा
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org