________________
१९८
श्रीउत्तराध्ययनदीपिकाटीका-१ कंपिल्लो मलयवई, वणराई सिंधुदत्त सोमा य ।
तह सिंधुसेण-पज्जुन्नसेणा वाणीर-वयगा य ॥४॥ [ उत्त. नि./गा.३४२] काम्पिल्यस्य मलयवती, सिन्धुदत्तस्य वनराजी सोमा च सुते, सिन्धुसेनप्रद्युम्नसेनयोः क्रमाद् वानीरव्रतिके सुते
हरिएसा गोदत्ता, करेणुदत्ता करेणुपइगा य ।
कुंजरकरेणुसेणा, इसिवुड्डी कुरुमई देवी ॥५॥ [ उत्त. नि./गा.३४३] हरिकेशा, गोदत्ता, करेणुदत्ता, करेणुपतिका च, कुञ्जरसेना, [करेणुसेना च,] ऋषिवृद्धिः, कुरुमती, देवी स्त्रीरत्नं, एता अष्टाग्रराज्य: ॥
अथ भ्रमणस्थानानि__ कांपिल्लि गिरितडागं, चंपा हत्थिणपुरं च साकेयं ।
समकडगं उस्साणं, वंसीपासाय कडगं च ॥१॥ [उत्त. नि./गा.३४४] काम्पिल्यं जन्मभूः, ततो गिरितटकं, ततश्चम्पां, ततो गजपुरं, ततः साकेतं, ततः समकटकं सन्निवेशं, ततोऽवश्यानकं स्थानं, ततोऽरण्यं वंशीगहनं सप्रासादं [वंशीतिवंशगहनं तदुपलक्षितं प्रासादं वंशीप्रसादं] गतः, ततः समकटकं गतोऽसौ ॥१॥
समकडगाओ अडवी, तण्हा वडपायवम्मि संकेओ ।।
गहणं वरधणुयस्स य, बंधणमक्कोसणं चेव ॥२॥ [ उत्त. नि./गा.३४५] समकटकादटवीं गच्छतस्तृष्णा कुमारस्य गाढाभूत् , मन्त्रिणा वटाधः स्रस्तरे कुमारः शायितः, सङ्केत उक्तः, दीर्घजनग्रहेऽहं त्वामन्योक्त्या नाशयिष्ये, अम्भसे गतोऽब्जपुटेन सरसोम्बु लात्वा यान् दीर्घजनैः पृच्छां कुर्वद्भिदृष्टो बद्धो वल्लीभिराक्रुष्टश्च ॥२॥
सो हम्मई अमच्चो, देहि कुमारं करे तुमे नीओ ? । गुलियविरेयणपीओ, कवडमओ छड्डिओ तेहिं ॥३॥ [ उत्त. नि./गा.३४६ ] सोऽमात्यो हन्यते, अतः कुमारं दर्शयत ? क्व रे त्वया नीतः ? तदा सङ्केतनाय मन्त्र्युचे,
सहकारमञ्जरीमनु-धवति मधुपो विमुच्य मधु मधुरं ।
कमलं कलयन् पश्चात्, संकोचकृतां स्वतनुबाधाम् ॥१॥ [ उत्त. नि./गा.३४६ वृ.] अथ मन्त्री गुटिकां विरेचनक/ पीतवान् , विरेचात्यन्तभावे मुखनिःसृतफेनबुद्रुदः कपटमृतस्तैः स छड्डितो मुक्तः ॥३॥
१. 'वयगा य' एतत्पाठस्थाने उत्त. नि. गा. ३४२ मध्ये 'पइगा य' इति पाठ: । अर्थः प्रतिकाभिधाना चेति ॥ सम्पा.
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org