SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १९४ श्रीउत्तराध्ययनदीपिकाटीका-१ ब्रह्मचर्येण सत्येन, तपसा संयमेन च । मातङ्गर्षिर्गतः शुद्धि, न शुद्धिस्तीर्थयात्रया ॥१॥ [ ] किञ्च भवत्तीर्थानि प्राणिपीडाहेतुत्वात् प्रत्युत मलं चिन्वन्ति, अतः कुतस्तेषां शुद्धिहेतुता ? तथा चोक्तं कुर्याद्वर्षसहस्रं तु, अहन्यहनि मज्जनं । सागरेणापि कृच्छ्रेण, वधको नैव शुद्ध्यति ॥१॥[ ] हृदशान्तितीर्थे एव विशिनष्टि, अनाविले मिथ्यात्वाऽगुप्तिभिरकलुषे, अनाविलत्वादेवात्मनो जीवस्य प्रसन्ना मनागप्यकलुषा लेश्याः पीताद्या यस्मिन् तदात्मप्रसन्नलेश्यं तस्मिन् , अथवा आप्ता वा तैः प्रसन्नलेश्या यस्मिंस्तदाप्तप्रसन्नलेश्यं तस्मिन् धर्मे ह्रदे, ब्रह्माख्यशान्तितीर्थ एव, यस्मिन् स्नातो विमलो भावमलरहितोऽत एव विशुद्धो गतकलङ्कः, सुशीतीभूतो रागाद्यतप्तेः (पाठान्तरे-सुष्ठ शोभनं शीलं समाधानं चारित्रं वा भूतः प्राप्तः शीलभूतः) प्रजहामि प्रकर्षेण त्यजामि, दूषयति जीवं विकृति नयतीति दोषस्तं दोषं कर्म। एवं ममापि ह्रदतीर्थे एव शुद्धिस्थानं, परमेवंविधे एव ॥४६।। अथ निगमयतिएयं सिणाणं कुसलेहि दिटुं, महासिणाणं इसिणं पसत्थं । जहिं सिण्हाया विमला विसुद्धा, महारिसी उत्तमं ट्ठाणं पत्ते ॥४७॥ त्ति बेमि व्याख्या-एतदुक्तं स्नानं रजोहीनं कुशलैदृष्टं, इदमेव च महास्नानं, न तु युष्मत्प्रतीतं, अस्यैव भावमलक्षालित्वात् , अत एव च ऋषीणां तत् प्रशस्तं प्रशस्यं, न तु जलस्नानवत् सदोषत्वान्निन्द्यं, अस्य तु फलं-सुब्ब्यत्ययात् , येन स्नाता विमला विशुद्धा महर्षय उत्तमं स्थानं मुक्तिं प्राप्ताः । एवं ते द्विजा बुद्धाः, साधुश्च संयमाराधकोऽभूत् , इति समाप्तौ, ब्रवीमीति च प्राग्वत् ॥४७।। इति तपःस्मृद्धिवाचि द्वादशं हरिकेशीयाध्ययनमुक्तम् ॥१२॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy