________________
द्वादशं हरिकेशीयाध्ययनम्
१९३ अग्न्युद्दीपनकारणं करीषाङ्गं ? येनासौ सन्धुक्ष्यते । एधाश्च समिधो यकाभिरग्निः प्रज्ज्वाल्यते ताः कतराः काः ? चस्य गम्यत्वात् शान्तिश्च दुरितोपशमहेतुरध्ययनपद्धतिः का ? ['भिक्खु'त्ति भिक्षुः] कतरेण कस्य सम्बन्धिना होमेन हवनविधिना जुहोषि ? आहूतिभिः प्रीणयसि ज्योतिरग्नि ? षड्विधजीवनिकायारम्भनिषेधेनास्मन्मतहोमोपकरणानि पूर्वं निषिध्य कथं तव यज्ञः ? ॥४३॥
मुनिः प्राहतवो जोई जीवो जोइठाणं, जोगा सुया सरीरं कारिसंगं ।
कम्मं एहा संजमजोगसंती, होमं हणामि इसिणं पसत्थं ॥४४॥
व्याख्या-तपो बाह्याभ्यन्तरभेदभिन्नं ज्योतिरग्नि वेन्धनैः कर्मदाहकत्वात् , जीवो ज्योतिःस्थानं, तपोज्योतिषस्तदाश्रयत्वात् , योगा मनोवाक्कायाः शुचः, ते हि शुभव्यापाराः स्नेहस्थानीयास्तपोऽग्नेर्चलनहेतवः, तत्र संस्थाप्यते शरीरं करीषाङ्ग, तेन तपोऽग्निरुद्दीप्यते, कर्म एधाः, तस्यैव तपसा भस्मीभावात् । संयमयोगशान्तिः, सर्वप्राण्युपद्रवहत्त्वात् तेषां, तथा होमेन जुहोमि तपोज्योतिः, ऋषीणां सम्बन्धिना प्रशस्तेन, सम्यक्चारित्रेणेति, अनेन च कतरेण होमेन जुहोषीति तैः पृष्टं यज्ञस्वरूपं मुनिनोक्तम् ॥४४॥
अथान्तरशुद्धिस्नानस्वरूपं पृच्छन्तिके ते हरए के य ते संतितित्थे, कहिं सिण्हाओ व रयं जहासि ।
आइक्ख णे संजय जक्खपूइया!, इच्छामो नाउं भवओ सगासे ॥४५॥ व्याख्या-कस्ते हृदः ? किं च ते शान्त्यै पापोपशमाय यत्तीर्थं पुण्यक्षेत्रं शान्तितीर्थं ? अथवा कानि च किंरूपाणि ते सन्ति तीर्थानि संसाराब्धितारणानि ? वाशब्दस्य भिन्नक्रमत्वात् कस्मिन् वा स्नातः शुचीभूतो रजः कर्म जहासि? गम्भीराशयस्त्वं, तत्किमस्माकमिव तवापि ह्रदतीर्थे एव शुद्धिस्थानमन्यद्वेति न विद्मः, तदाचक्ष नोऽस्माकं हे संयत यक्षपूजित ! इच्छामो ज्ञातुं तद्भवतः सकाशे ॥४५॥
मुनिराहधम्मे हरए बंभे संतितित्थे, अणाविले अत्तपसन्नलेसे । जहिं सिण्हाओ विमलो विसुद्धो, सुसीईभूओ पजहामि दोसं ॥४६॥
व्याख्या-धर्मोऽहिंसादिर्हृदः, कर्मरजोहत्त्वात् , ब्रह्मचर्यं शान्तितीर्थं, तदासेवनेन सर्वमलमूलं रागद्वेषौ क्षपितावेव, सत्याद्यप्येवं ज्ञेयं । उक्तं च
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org