________________
१९२
श्रीउत्तराध्ययनदीपिकाटीका-१ तथा यजामो यागं कुर्मः ? कथं [पापानि-अशुभानि]कर्माणि अवद्यरूपाणि प्रणुदामः प्रेरयामः प्रस्फेटयाम इति । आख्याहि नोऽस्माकं हे संयत ! पापस्थानेभ्यः सम्यग् निवृत्त ! हे यक्षपूजित ! योऽस्मद्विदितः कर्मप्रणोदोपायो यागः स युष्माभिर्दूषितः, इति यूयमेवाथाऽपरं यागमुपदिशथ ! कथं स्विष्टं शोभनयजनं कुशला वदन्ति ? ॥४०||
मुनिः प्राह
छज्जीवकाए असमारभंता, मोसं अदत्तं च असेवमाणा । परिग्गहं इत्थीओ माणमायं, एयं परिन्नाय चरंति दंता ॥४१॥
व्याख्या-षड्जीवकायान् पृथ्व्यादीन् असमारम्भमाणा अनुपमईयन्तः, मृषामलीकभाषणं अदत्तादानं च असेवमानाः, परिग्रहं मूर्छा, स्त्रियो, मानं, मायां, तत्सहचरत्वात् क्रोधलोभौ च, एतत् पूर्वोक्तं परिज्ञाय ज्ञपरिज्ञया ज्ञात्वा, प्रत्याख्यानपरिज्ञया च प्रत्याख्याय चरेयुर्धर्मे प्रवर्तेरन् दान्ता यतयः, यत एवं दान्ताश्चरन्ति, अतो भवद्भिरप्येवं चरितव्यम् ॥४१॥
कथं चरेम यागायेत्याद्यप्रश्नस्योत्तरमुक्तं, अथ कथं यजाम इति द्वितीयस्याहसुसंवुडा पंचहिं संवरेहि, इह जीवियं अणवकंखमाणा । वोसट्टकाया सुइचत्तदेहा, महाजयं जयइ जन्नसिटुं ॥४२॥
व्याख्या-सुसंवताः स्थगितसर्वाश्रवद्वाराः पञ्चभिः संवरैः प्राणातिपातविरत्यादिवृतैः, इह नृजन्मे जीवितं परत्र च जीवितं असंयमजीवितं अनवकाङ्क्षमाणा अनिच्छन्तः, विशेषेण परिषहोपसर्गसहिष्णुतयोत्सृष्टः कायो यैस्ते व्युत्सृष्टकायाः, शुचयोऽकलुषितव्रताः, ते च ते त्यक्तदेहाश्च अत्यन्तनिःप्रतिकर्मतया शुचित्यक्तदेहाः, महान् जयः कर्मारीणां यत्र यज्ञे श्रेष्ठेऽसौ महाजयस्तं, सुब्ब्यत्ययाज्जयन्ति यतयः, ततो भवन्तोऽप्येवं यजन्तां, प्राकृतत्वात् श्रेष्ठयज्ञं, श्रेष्ठवचनेन चैतद्यजनमेव स्विष्टं, एष एव च कर्मणां प्रणोदोपाय इत्युक्तम् ॥४२।।
तं ऋषि यजमानस्योपकरणानि यजनविधिं च प्रश्नयन्ति
के ते जोई के व ते जोइठाणं, का ते सूया किं च ते कारिसंगं ।
एहा य ते कयरा संति भिक्खू, कयरेण होमेण हुणासि जोइं ॥४३॥
व्याख्या-'के' इति किं 'ते' तव ज्योतिरग्निः ? किं 'ते' तव ज्योतिःस्थानं ? यत्र ज्योतिनिधीयते, काः शुचो घृतादिप्रक्षेपिका दर्व्यः ? किं वा करीष एवाङ्गं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org