________________
द्वादशं हरिकेशीयाध्ययनम्
१९१
व्याख्या-साक्षात् प्रत्यक्षं, खुर्निश्चये, दृश्यते तपसो विशेषो माहात्म्यं, न दृश्यते जातिविशेषो जातिमाहात्म्यं कोऽपि स्वल्पोऽपि यतः स्वपाकपुत्रं हरिकेशसाधुं पश्यत ! यस्येदृशी दृश्यमानरूपा ऋद्धिर्देवसान्निध्यसम्पद्युता महानुभागा सातिशयमाहात्म्या वर्त्तते ॥३७॥ अथ मुनिस्तान् शान्तमिथ्यावान् प्रति उपदेशमाह
किं माहणा जोइसमारभंता, उदएण सोहिं बहिया विमग्गहा । जं मग्गहा बाहिरियं विसोहिं, ण तं सुदिनं कुसला वयंति ॥ ३८ ॥
व्याख्या- किमाक्षेपे, ततो न युक्तमिदं, हे ब्राह्मणा ! ज्योतिरग्नि समारभमाणा यागं कुर्वन्तः, उदकेन च शुद्धिं बाह्यां कुर्वन्तः स्थ, तत्र ते यागस्नाने एव त्वनिष्टे, ते च बाह्ये एव विमार्गयथ विजानीथ । यूयं यद्विमार्गयथ बाह्यां यागस्नानहेतुकां विशुद्धि नैर्मल्यं नैतत् सुदृष्टं कुशलास्तत्त्वज्ञा वदन्ति ||३८||
ततः
कुसं च जूवं तणकट्ठमरिंग, सायं च पायं उदगं फुसंता । पाणाई भूयाई विहेडयंता, भुज्जो वि मंदा पकरेह पावं ॥३९॥
व्याख्या - कुशं दर्भ, यूपं यज्ञस्तम्भं, तृणं वीरण्यादि, काष्ठं समिदादि, तृणकाष्ठं, अग्नि च सायं सन्ध्यायां, प्रातश्चोदकं स्पृशन्त आचमनादौ प्राणयोगात् प्राणिनः, प्रकर्षेण अनन्ति श्वसन्तीति वा प्राणास्तान् द्वीन्द्रियादीन् जले पूतरादिरूपान्, भूतांश्च तरून् पृथ्व्यादीन् विहेडयन्तो विविधं बाधमानान् विनाशयन्तः, भूयोऽपि न केवलं पुरा, किन्तु शुद्धिकालेऽपि, जलाग्न्यादिजीवारम्भान्मन्दा जडा: [ प्रकुरुथ] प्रकर्षेणोपचिनुथ पापमशुभं कर्म, अयं भावः-कर्ममलक्षये एव तात्विकी शुद्धिर्मन्यते भवदिष्टयागस्नाने तु भूतघातहेतू प्रत्युत कर्ममलकरे एव, नातस्ते भव्ये, इति कथं तद्धेतुकशुद्धिमार्गेण सुदृष्टं ते कुशला ब्रूयुः ? तथा च वाचक:
शौचमाध्यात्मिकं त्यक्त्वा, भावशुद्ध्यात्मकं शुभं ।
जलादिशौचं यत्रेष्टं मूढविस्मापनं हि तत् ॥१॥ [ ] ॥३९॥
इत्थं तद्वाचोत्पन्नशङ्कास्ते धर्मं पप्रच्छुः
कहं चरे भिक्खु वयं जयामो, पावाइं कम्माई पणोल्लयामो । अक्खाहि णो संजय जक्खपूइया, कहं सुजद्वं कुसला वयंति ॥४०॥ व्याख्या–कथं वचनव्यत्ययाच्चरेमहि यागार्थं प्रवर्तेमहि ? हे भिक्षो ! वयं, कथं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org