________________
१९०
श्रीउत्तराध्ययनदीपिकाटीका-१ चकारात्तद्गतानेकभेदान् , धर्म सदाचारं दशधा यतिधर्मं विजानन्तो यूयं नापि नैव कुप्यथ। भूतिर्मङ्गलं वृद्धिः रक्षा चेति, ततो भूतिर्मङ्गलं सर्वमङ्गलोत्तमत्वेन, वृद्धिर्वा विशिष्टत्वेन, रक्षा वा प्राणिरक्षकत्वेन, प्रज्ञा बुद्धिरेषामिति भूतिप्रज्ञाः, एवंविधा यूयं स्थ, अतस्तुरेवार्थे, युष्माकमेव पादौ शरणमुपेमः, समागताः सर्वजनेन सह वयमिति ॥३३॥ किञ्च
अच्चेमु ते महाभागा, ण ते किंच ण अच्चिमो ।
भुंजाहि सालिमं करं, नाणावंजणसंजुयं ॥३४॥
व्याख्या-अर्चयाम: 'ते' तव सम्बन्धि सर्वमपि हे महाभाग ! 'णे' इति नैव ते किञ्चिदिति चरणरेणवादिकमपि यद्वयं नार्चयामः, तथा भुक्ष्व इतो लात्वा 'सालिमंति शालिमयं कूर, नानाव्यञ्जनैर्दध्यादिभिः संयुतम् ॥३४||
अन्यच्च
इमं च मे अत्थि पभूयमन्नं, तं भुंजसू अम्ह अणुग्गहट्ठा । बाढं ति पडिच्छइ भत्तपाणं, मासस्स ऊ पारणए महप्पा ॥३५॥
व्याख्या-इदं प्रत्यक्षं ममास्ति प्रभूतमन्नं मण्डकखण्डखाद्यादि समस्तमपि भोजनं, तद्धक्ष्वास्माकमनुग्रहार्थं लाभार्थं, एवं तेनोक्ते मुनिराह बाढमेवं कुर्मः, इत्येवं ब्रुवाणः स प्रतीच्छति, द्रव्यादितः शुद्धमिति गृह्णाति भक्तं पानं मासस्यैवान्ते पार्यते पर्यन्तः क्रियते नियमस्याऽनेनेति पारणं तस्मिन् पारणके महात्मा ॥३५।।
तदा चतहियं गंधोदयपुप्फवासं, दिव्वा तहिं वसुहारा य वुट्ठा । पहयाओ दुंदुभीओ सुरेहि, आगासे अहो दाणं च घुटुं ॥३६॥
व्याख्या-तस्मिन् मुनौ भक्तपानं प्रतीच्छति सति यज्ञवाटके गन्धोदकपुष्पवर्षः सुरैः कृतः, दिव्या अतिश्रेष्ठाः, वसु द्रव्यं, तस्य धाराः पातश्रेण्यो वृष्टाः सुरैः, प्रहता दुन्दुभयो देवानकाः सुरैः, शेषातोद्यानि च, आकाशे च अहो दानं ! कोऽन्यः किलैवं शक्नोति दातुमेवं देवैर्युष्टं शब्दितम् ।।३६।।
ते द्विजा अपि हृष्टा आहुः
सक्खं खु दीसइ तवो विसेसो, न दीसई जाइविसेस कोइ । सोवागपुत्तं हरिएससाहूं, जस्सेरिसा रिद्धि महाणुभागा ॥३७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org