________________
द्वादशं हरिकेशीयाध्ययनम्
१८९
ते पासिया खंडिय कट्ठभूए, विमणो विसन्नो अह माहणो सो । ईसिं पसाएति सभारियाओ, हीलं च निंदं च खमेह भंते ॥ ३० ॥
व्याख्या-तान् खण्डिकान् छात्रान् दृष्ट्वा काष्ठभूतान् निश्चेष्टकाष्टोपमान्, विगतं मनोऽस्येति विमनाः, विषण्णः कथममी सज्जा भविष्यन्तीतिचिन्ताव्याकुलितः, अथेति दर्शनानन्तरं ब्राह्मणः स सोमदेवः, ऋषिं तं प्रसादयति सभार्यो भार्यायुक्तः, हीलां चावज्ञां निन्दां च दोषोद्भावनां क्षमस्व ! हे भदन्त ! ||३०||
तावाहतुः
बालेहिं मूढेहिं अयाणएहिं, जं हीलिया तस्स खमाह भंते । महप्पसाया इसिणो हवंति, न हु मुणी कोवपरा हवंति ॥३१॥
व्याख्या - बालैः शिशुभिर्मूढैः कषायमोहनीयोदयाद्विचित्ततां गतैरज्ञैर्हिताऽहितज्ञानहीनैर्यद् हीलिता यूयं, 'तस्से'त्ति तस्यापराधस्य क्षमध्वं भदन्त ! यतोऽमी शिशवो मूढा अज्ञानाश्च तत्किमेषामुपरि कोपेन ? यतोऽनुकम्पनीया एवामी । उक्तञ्चआत्मद्रुहममर्यादं, मूढमुज्झितसत्पथं ।
सुतरामनुकम्पेत, नरकार्चिष्मदिन्धनं ॥ १ ॥ [ ]
किञ्च महान् प्रसादश्चित्तप्रसत्तिरूपो येषां ते महाप्रासादा ऋषयो भवन्ति, न पुनर्मुनयः कोपरा भवन्तीति ॥३१॥
मुनिराह
पुव्विं च इण्हि च अणागयं च, मणप्पओसो न मेत्थि कोइ । जक्खा हु वेयावडियं करेंति, तम्हा हु एए निहया कुमारा ॥ ३२ ॥
व्याख्या - पूर्वं च पुरा, इदानीमस्मिन् काले, अनागते च भविष्यत्काले मनः प्रद्वेषो न 'मे' ममास्ति, आसीद्भविष्यति च कोऽप्यल्पोऽपि । यक्षा देवविशेषा हुरिति यस्माद्वैयावृत्तिं कुर्वन्ति, तस्माद् हुरेवार्थे, तस्मादेव एते पुरोवर्त्तिनो नितरां हता निहताः कुमारास्तैरिति शेषः, न तु मम मनः प्रद्वेषो हेतुः ||३२||
अथ तद्गुणाकृष्टचित्ता उपाध्यायाद्या इदमाहुः
अत्थं च धम्मं च विजाणमाणा, तुब्भे ण वि कुप्पह भूइपण्णा । तुब्भं तु पाए सरणं उवेमो, समागया सव्वजणेण अम्हे ||३३|| व्याख्या- -अर्थं शुभाशुभकर्मविभागं रागद्वेषविपाकं वा, यद्वा अर्थं शास्त्राणां,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org