________________
द्वादशं हरिकेशीयाध्ययनम्
१८७ व्याख्या-हुः निश्चये, एष एव स उग्रतपाः, अत एव महात्मा जितेन्द्रियः, संयतो, ब्रह्मचारी, यो मां तदा नेच्छति दीयमानां [केन ? पित्रा जनकेन] कौशलिकेन राज्ञा स्वयमात्मनैव, न तु प्रधानादिना, तदनेन तस्य निस्पृहत्वमुक्तम् ।।२२।।
पुनस्तन्माहात्म्यमाहमहाजसो एस महाणुभागो, घोरव्वओ घोरपरक्कमो य ।
मा एयं हीलह अहीलणिज्जं, मा सव्वे तेएण भे निद्दहिज्जा ॥२३॥
व्याख्या-महायशा एष मुनिर्महाभाग्योऽचिन्त्यशक्तिः (पाठान्तरे-महानुभावो वा) तत्र चानुभावः शापाऽनुग्रहसामर्थ्य, घोरव्रतो धृतात्यन्तदुर्धरमहाव्रतः, घोरपराक्रमश्च कषायादिजयं प्रति रौद्रसामर्थ्यः, यतोऽयमीहक् ततो मा इति निषेधे एनं यति हीलयत, अहीलनीयं अवज्ञातुमयोग्यं । मा सर्वांस्तेजसा तपोमाहात्म्येन 'भे' भवतो निर्धाक्षीत् भस्मसात्कार्षीदिति । अयं हि रुष्टो भस्मसादेव कुर्यात् । ॥२३॥ तथा मा भूदेतदुक्तं मृषेति यक्षो यत् करोति तदाह
एयाइं तीसे वयणाई सोच्चा, पत्तीए भद्दाए सुभासियाई। इसिस्स वेयावडियट्ठयाए, जक्खा कुमारे विणिवारयति ॥२४॥
व्याख्या-एतानि तस्याः पत्न्याः यज्ञवाटकेशस्य सोमदेवपुरोधसः, वचनानि श्रुत्वा भद्रायाः सुभाषितानि सूक्तानि, ऋषेस्तस्यैव, ['वेयावडियट्ठयाए'त्ति] सूत्रत्वाद् वैयावृत्त्यार्थे एतत्प्रतिकूलवारणार्थे, व्यावृत्ता भवाम इत्येवमर्थं, यक्षाः, यक्षपरिवारस्य बहुत्वाद्बहुवचनं, कुमारानेवापहन्तॄन् विनिवारयन्ति ॥२४||
ते घोररूवा ठिय अंतलिक्खे, असुरा तहिं तं जणं तालयंति । ते भिन्नदेहे रुहिरं वमंते, पासित्तु भद्दा इणमाहु भुज्जो ॥२५॥
व्याख्या-ते इति घोररूपा रौद्राकारधारिणः स्थिता अन्तरिक्षे आकाशे असुराः, असुरभावान्वितत्वात् , तत्र यज्ञपाटके तमुपसर्गकारिणं जनं छात्रलोकं ताडयन्ति घ्नन्ति । ततस्तान् भिन्नदेहान् विदारिताङ्गान् रुधिरं वमतो दृष्ट्वा भद्रा इदमाह भुयः पुनः ॥२५॥
यथा
गिरिं नहेहिं खणह, अयं दंतेहिं खायह ।
जायतेयं पाएहिं हणह, जे भिक्खुं अवमन्नह ॥२६॥ व्याख्या-सूत्रत्रयं । गिरि नखैः खनथ, सर्वत्र इवार्थो ज्ञेयः, ततो नखैरिव गिरि
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org