________________
१८५
द्वादशं हरिकेशीयाध्ययनम् तथा च वेदानुवादिनः
चरेन्माधुकरी वृत्ति-मपि म्लेच्छकुलादपि ।
एकान्नं नैव भुञ्जीत, बृहस्पतिसमादपि ॥१॥[ ] यद्वोच्चावचानि विकृष्टानि विकृष्टतया नानाविधानि तपांसि, उच्चव्रतानि वा, शेषव्रतापेक्षया महाव्रतानि ये मुनयश्चरन्त्यासेवन्ते, न तु यूयमिवाऽजितेन्द्रिया अशीला वा, तान्येव मुनयः क्षेत्राणि सुपेशलानि ॥१५।। इत्थमध्यापकं यक्षेण निर्मुखीकृतं ज्ञात्वा तच्छात्रा आहुः
अज्झावयाणं पडिकूलभासी, पभाससे किं नु सगासि अम्हं।
अवि एवं विणस्सउ अण्णपाणं न य णं दाहामु तुमं नियंठा ॥१६॥
व्याख्या-अध्यापकानामुपाध्यायानां प्रतिकूलभाषी सन् त्वं प्रभाषसे प्रकर्षण ब्रूषे, किमिति क्षेपे, नुरित्यक्षमायां, ततश्च धिक् त्वां, न वयं क्षमामहे यदित्थं त्वं ब्रूषे, सकाशेऽस्माकं, अपिः सम्भावने, एतद् दृश्यमानं विनश्यतु क्वथितादिभावं प्राप्नोतु अन्नपानं, परं न च नैव, णं वाक्ये, दास्यामस्तव, हे निर्ग्रन्थ ! नि:कञ्चन ! गुरुप्रत्यनीको हि त्वं, अन्यथा तु कदाप्यनुकम्पया किञ्चिदन्तप्रान्तादि तुभ्यं दद्मोऽपि ॥१६॥
यक्ष आहसमिईहिं मज्झं सुसमाहियस्स, गुत्तीहिं गुत्तस्स जिइंदियस्स ।
जइ मेन दाहस्स अहेसणिज्जं, किमज्ज जन्नाण लभित्थ लाभं ॥१७॥
व्याख्या-समितिभिरीर्यासमित्यादिभिर्मह्यं सष्ठ समाहिताय समाधिमते, गुप्तिभिर्गुप्ताय जितेन्द्रियाय, चतुर्थ्यर्थे षष्ठी । यदीत्यभ्युपगमे 'मे' मह्यं न दास्यथ, अथेत्युपन्यासे, एषणीयमेषणाशुद्धमन्नादिकं । तर्हि किं अद्य, हे आर्या वा यज्ञानां, सूत्रत्वाल्लप्स्यध्वे लाभं पुण्याप्ति ! पात्रदानादेव पुण्याप्तिः, अन्यथा हानिरेव, उक्तं हि
दधिमधुघृतान्यऽपात्रे, क्षिप्तानि यथाशु नाशमुपयान्ति ।
एवमपात्रे दत्तानि, केवलं नाशमुपयान्ति ॥१॥[ ] ॥१७॥ इत्थं तेनोक्ते अध्यापक आह
के इत्थ खित्ता उवजोइया वा, अज्झावया वा सह खंडिएहिं । एयं तु दंडेण फलेण हंता, कंठमि घित्तूण खलेज्ज जो णं ॥१८॥ व्याख्या केऽत्रास्मिन स्थाने क्षत्राः क्षत्रियाः, उपज्योतिष्का अग्निसमीपवर्तिनो
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org