________________
१८४
श्रीउत्तराध्ययनदीपिकाटीका-१ ब्राह्मणो ब्रह्मचर्येण, यथा शिल्पेन शिल्पिकः ।
अन्यथा नाममात्रं स्या-दिन्द्रगोपककीटवत् ॥२॥[ ] न चेवंविधा क्रिया ब्रह्मचर्यात्मिका कोपाद्युपेतेषु त्वतः सम्भवति, अतो न तावद्युष्मासु जातिसम्भवः । तथा विद्या अपि सच्छास्त्रात्मिकाः, सच्छास्त्रेषु च सर्वेष्वपि अहिंसादिपञ्चकमेव वाच्यं । यत उक्तं-"पञ्चैतानि पवित्राणि" [ ] इत्यादि । अतस्तद्युक्तत्वं तज्ज्ञानादेव स्यात् , ज्ञानस्य तु विरतिफलं रागाद्यभावश्च
तज्ज्ञानमेव न भवति, यस्मिन्नुदिते विभाति रागगणः ।
तमसः कुतोऽस्ति शक्ति-दिनकरकिरणाग्रतः स्थातुम् ॥१॥[ ] न चैवमग्न्याद्यारम्भिषु कोपादिमत्सु विरतेः रागाद्यभावस्य च सम्भवोऽस्ति, तुः एवार्थे, ततस्तानि भवद्विदितानि ब्राह्मणक्षेत्राणि सुपापकान्येव, न तु सुपेशलानि, क्रोधाधुपेतत्वेनापि पापहेतुत्वात् ॥१४॥
अथ ते ब्रूयुर्वेदविदो वयं ब्राह्मणजातास्तत्कथं जातिविद्याहीनाः, इत्युक्तवानसीत्याहतुब्भेत्थ भो भारधरा गिराणं, अत्थं न जाणेह अहिज्ज वेए । उच्चावयाइं मुणिणो चरंति, ताइं तु खित्ताइं सुपेसलाइं ॥१५॥
व्याख्या यूयमत्र लोके भो विप्रा भारधराः (पाठान्तरे-भारवाहाः) गिरां वाचां वेदसम्बन्धिनीनां, भारोक्तिस्तासामकरणात् , तथाऽर्थं न जानीथ, अधीत्यापि वेदान् ऋग्वेदादीन् । तथाहि-"आत्मा रे ज्ञातव्यो मन्तव्यो निदिध्यासितव्यः, तथा मृत्युमृषयो निषेदुः, प्रजावन्तो द्रविणमन्विच्छमाणा ईहमानाः, अथापरं कर्मभ्योऽमृतत्वमानशुः, परेण कर्मणा नोऽस्माकं, नाकं सुखं निहितं गुहायां विभ्राजते, यद्यत्तयो विशन्ति, वेदाहमेनं पुरुषं महान्तमेवं विदित्वाऽमृतत्वमेव, इति नान्यः पन्थाः अयनाय" [ ] इत्यादिवचसां यद्यर्थवेत्तारः स्युस्तदा किमर्थं यागादि कुर्वीरन् । ततस्तत्त्वतो न वेदविद्याज्ञा यूयं, तत्कथं जातविद्याऽसम्पन्नत्वेन क्षेत्रभूताः स्युः ? कानि तहि क्षेत्राणीत्याह-उच्चावचान्युत्तमाऽधमानि गृहाणि मुनयश्चरन्ति भिक्षानिमित्तं पर्यटन्ति, ये न तु यूयमिव वचनाद्यारम्भवृत्तयः, त एव च परमार्थतो वेदार्थं विदन्ति, तत्रापि भिक्षावृत्तेरेवोक्तत्वात् ।
१. परेण नाकं निहितं गुहायां, विभ्राजते यद्यतयो विशन्ति । वेदाहमेनं पुरुषं महान्तं, तमेव विदित्वा अमृतत्वमेति ॥ [ ]
इति श्लोक: उ.अ.१२ गा.१४ वृ. ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org