SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ द्वादशं हरिकेशीयाध्ययनम् १८३ व्याख्या-स्थलेषु जलावस्थितिमुक्तेषु उच्चभूभागेषु बीजानि वपन्ति कर्षकाः, तथैव स्थलेष्विव निम्नेषु नीचभूभागेषु च आशंसया, यदि घना वृष्टिस्तदा स्थलेषु फलानि, अन्यथा तदा निम्नेषु, इतीच्छया, एतया एतदुपमया कर्षकाशंसातुल्यया श्रद्धया ददध्वं मह्यं? यद्यपि वो निम्नोपमत्वबुद्धिरात्मनि, मयि तु स्थलतुल्या धीः, तथापि मह्यमपि दातुमर्हथ, अथ स्यादेवं दत्तेऽपि न फलाप्तिरित्याह-खुः एवार्थे, आराधयेदेव समन्तात् साधयेत् , नात्राऽन्यथाभावः, पुण्यं शुभं इदं दृश्यमानं क्षेत्रं । पुण्यशस्यप्ररोहहेतुतयात्मानमेव पात्रभूतमाह (पाठान्तरे–'आराहगा होहिम पुण्णखितं'ति) आराधकाः पुण्यस्य भवत ! अनेन च दानफलमाह यत इदं पुण्यक्षेत्रं पुण्यप्राप्तिहेतुक्षेत्रम् ।।१२।। इति यक्षोक्ते ते आहुःखित्ताणि अम्हं विदियाणि लोए, जहिं पकिन्ना विरुहंति पुण्णा। जे माहणा जाइविज्जोववेया, ताइं तु खेत्ताइं सुपेसलाइं ॥१३॥ व्याख्या-क्षेत्राणि क्षेत्रोपमानि पात्राण्यस्माकं विदितानि वर्त्तन्ते, जगति येषु क्षेत्रेषु प्रकीर्णानि दत्तान्यशनादीनि विरोहन्ति जन्मान्तरे प्रादुर्भवन्ति पूर्णानि समस्तानि, न तु तन्मध्ये त्वं, यतः ये ब्राह्मणा द्विजास्तेऽपि न नाम्नैव, किन्तु ब्राह्मणा जातिः, विद्या चतुर्दशविद्यास्थानानि, ताभ्यामुपेताः, तान्येव च क्षेत्राणि सुपेशलानि शोभनानि प्रीतिकराणि वा, यतः सममश्रोत्रिये दानं, द्विगुणं ब्राह्मणब्रुवे । सहस्रगुणमाचार्ये, अनन्तं वेदपारगे [ ] ॥१३॥ यक्षः प्राह कोहो य माणो य वहो य जेसिं, मोसं अदत्तं च परिग्गहो य । ते माहणा जाइविज्जाविहूणा, ताइं तु खित्ताई सुपावगाइं ॥१४॥ व्याख्या-क्रोधश्च मानश्च, चात् माया लोभो वधश्च, येषामिति भवतां ब्राह्मणानां, मृषा त्वलीकोक्तिः, अदत्तमदत्तादानं, चकारान्मैथुनं, परिग्रहश्च गोभूम्यादिस्वीकारोऽस्ति, ते इति क्रोधाद्युपेता यूयं ब्राह्मणा जातिविद्याहीनाः । क्रियाकर्मविभागेन हि चातुर्वण्यव्यवस्था, यतः एकवर्णमिदं सर्वं, पूर्वमासीधुधिष्ठिर ! । क्रियाकर्मविभेदेन, चातुर्वण्र्यं व्यवस्थितम् ॥१॥[ ] Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy