SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १८२ श्रीउत्तराध्ययनदीपिकाटीका-१ व्याख्या-श्रमणो मुनिरहं, सम्यग्यतः संयतोऽसद्व्यापारेभ्यो निवृत्तः, ब्रह्मचारी, तथा विरतो निवृत्तो धनपचनपरिग्रहात् , धनं चतुष्पदादि, पचनं आहारनिष्पादनं, परिग्रहो द्रव्यादिषु मूर्छा, अत एव परस्मै प्रवृत्तं परार्थं निष्पन्न, तस्य, तुः एवार्थे, ततः परप्रवृत्तस्यैव न तु मदर्थस्य, अन्नस्यार्थं भिक्षाकाले न त्वकाले इह यज्ञपाटके आगतोऽस्मि । अनेन यदुक्तं कतरस्त्वं ? किमिहागतोऽसीति तत्प्रत्युत्तरम् ॥९॥ एवमुक्ते ते चैतद् ब्रूयुर्यन्नेह किञ्चित् कस्मैचिद्दीयते, तत्राहवियरिज्जइ खज्जइ भोज्जइ य, अन्नं पभूयं भवयाणमेयं । जाणाहि मे जायणजीविणो त्ति, सेसावसेसं लहऊ तवस्सी ॥१०॥ व्याख्या-वितीर्यते दीयते दीनाऽनाथादिभ्यः, खाद्यते खण्डखाद्यादि, भुज्यते च भक्तसूपादि, अद्यते इत्यन्नं अशनं प्रभूतं भवतां, एतत् प्रत्यक्षं, तथा च न जानीत 'मे' मां याचनेन जीवनं प्राणधारणमस्येति याचनजीवनं, आर्षत्वादिकारः, द्वितीयार्थे षष्ठी, इति शेषावशेषं उद्धरितस्याप्युद्धरितं, अन्तं प्रान्तं लभतां मल्लक्षणस्तपस्वी, यतिर्वराको वा भवदाशयेन ॥१०॥ एवं यक्षोक्ते यज्ञवाटकस्था ब्राह्मणा आहुः उवक्खडं भोयण माहणाणं, अत्तट्ठियं सिद्धमिहेगपक्खं । नऊ वयं एरिसमन्नपाणं, दाहामु तुब्भं किमिहं ठिओ सि ॥११॥ व्याख्या-उपस्कृतं लवणवेसरादिसंस्कृतं भोजनं ब्राह्मणानां आत्मनोऽर्थं भवमात्मार्थिकं ब्राह्यणैरप्यात्मनैव भोज्यं, नत्वन्यस्मै देयं । यतः सिद्धं निष्पन्नमिहास्मिन् यज्ञे एतदेकपक्षं, एक: पक्षो ब्राह्मणलक्षणो यस्येत्येकपक्षं, यदत्रोपस्क्रीयते तद् ब्राह्मणायैव दीयते, न शूद्राय, यत उक्तम् ___ न शूद्राय मतिं दद्या-न्नोच्छिष्टं न हविःकृतं । न चास्योपदिशेद्धम, न चास्य व्रतमादिशेत् ॥१॥ [ ] ततो न नैव वयमीदृशमन्नमोदनादि, पानं द्राक्षापानादि अन्नपानं तुभ्यं दास्यामः, अतः किमिह स्थितोऽसि ? नैवेहावस्थितावपि तव किञ्चिन्मिलिष्यति ॥११॥ यक्षः प्राहथलेसु बीयाइं ववंति कासया, तहेव णिण्णेसु य आससाए । एयाए सद्धाए दलाहि मझं, आराहए पुण्णमिणं खु खित्तं ॥१२॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy