________________
द्वादशं हरिकेशीयाध्ययनम्
१८१ __व्याख्या-कतरः, एकारः प्राकृतत्वात् , आगच्छति ? (पाठान्तरे- 'कोरे आगच्छइ'त्ति, कोरे इति लघोरामन्त्रणं) दीप्तरूपोऽतिबीभत्सो, विकृततया वा दुर्दर्शनः, कालो वर्णेन, विकरालो दन्तुरतादिना भीकृत् , 'फुक्क'त्ति अग्रदेशे स्थूलोन्नता च नासाऽस्येति फोक्कनासः, अवमचेलको निकृष्टवस्त्र, पांशुना रजसा पिशाचवद्भूतो जातः पांशुपिशाचवद्भूतः, पिशाचो हि लौकिकानां दीर्घश्मश्रूनखरोमा पांशुगुण्डितश्चेष्टः, ततः सोऽपि निःप्रतिकर्मत्वरजोऽवगुण्ठितदेहतया चैवं । सङ्करस्तृणभस्मगोमयागारादिराशिरुत्कुरुडिका, तत्रस्थं दूष्यं वस्त्रं संकरदृष्यं, तत्र हि यदत्यन्तनिकृष्टं निरुपयोगि च स्यात्तदेव लोकैरुज्झ्यते, ततस्तत्प्रायं वस्त्रं, तत् परिवृत्य निक्षिप्य कण्ठे गले कण्ठैकपार्वे इत्यर्थः, अनिक्षिप्तोपधिः स्वोपधिं लात्वैव स भ्रमतीति ॥६॥
इत्थं दूरादागच्छन् स उक्तः, सन्निकृष्टं त्वेवमूचुःकयरे तुम इय अदंसणिज्जे, का एव आसा इहमागओ सि ।
ओमचेलगा पंसुपिसायभूया, गच्छ खलाहि किमिहं ठिओ सि ॥७॥
व्याख्या-कतरस्त्वं ? (पाठान्तरे-कोरे त्वं ?) इतीत्येवमदर्शनीयो दृष्टुमनर्हः, कया वा, प्राकृतत्वादेकारलोप, मश्चागमिकः, तत आशया वाञ्चया इह यज्ञपाटके आगतोऽसि ? अवमचेलकः पांशुपिशाचभूतः प्राग्वत् । पुनरनयोरुपादानमत्यन्ताधिक्षेपे । गच्छेतो यज्ञपाटकात् । 'खलाहि' देश्युक्त्याऽपसरास्मदृष्टेः, किमिह स्थितोऽसि त्वं? नैवेह त्वया स्थेयं ॥७॥
___ एवमधिक्षिप्तेऽपि तस्मिन् मुनौ प्रशमितया किञ्चिदजल्पति तत्सान्निध्यं चक्रे गण्डीतिन्दुकयक्ष:
जक्खो तहिं तिंदुयरुक्खवासी, अणुकंपओ तस्स महामुणिस्स । पच्छायइत्ता नियगं सरीरं, इमाई वयणाइमुदाहरित्था ॥८॥
व्याख्या-यक्षो व्यन्तर: तिन्दुको नामा वृक्षस्तद्वासी, यतस्तिन्दुकवनान्तर्महांस्तिन्दुकवृक्षस्तत्रासौ वसति, तदधस्ताच्च तच्चैत्यं यत्र स साधुस्तिष्ठति । अनुकम्पकोऽनुकूलकृपाप्रवृत्तिः, तस्य बलस्य महामुनेः प्रति । प्रच्छाद्य निजकं शरीरं यक्षो निजदेहं गुप्तीकृत्य, तपस्विशरीरे च प्रविश्यमानि वक्ष्यमाणानि वचनानि उदाहृतवान् ॥८॥
यथासमणो अहं संजओ बंभयारी, विरओ धणपयणपरिग्गहाओ । परप्पवित्तस्स उ भिक्खकाले, अन्नस्स अट्ठा इहमागओ म्हि ॥९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org