SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १८० श्रीउत्तराध्ययनदीपिकाटीका-१ व्याख्या-इर्याएषणाभाषायां तथा उच्चारे पुरीषे, अन्येष्वपि परिस्थापने, एषु स्थानेषु समितिषु सम्यक् प्रवर्त्तनेषु यतते इति यतो यत्नवान् , तथा आदानं पीठफलकादेनिक्षेपः स्थापनं आदाननिक्षेपं, अपवादे तयोः । समित्यां च यतः संयतः संयमान्वितः सुसमाहितः सुष्ठ समाधिवान् ॥२॥ तथा मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ । भिक्खट्ठा बंभइज्जंमि, जन्नवाडमुवट्ठिओ ॥३॥ व्याख्या-मनो गुप्तमस्येति मनोगुप्तः, एवं वाग्गुप्तादिः, भिक्षार्थं ब्राह्मणानां इज्या यजनं तस्मिन् ब्रायेज्ये( ब्रह्मज्ये )यज्ञवाटके उपस्थितः प्राप्तः ॥३।। तं पासिऊणमेज्जंतं, तवेण परिसोसियं । पंतोवहीउवगरणं, उवहसंति अणारिया ॥४॥ व्याख्या-तं मुनिं दृष्ट्वाजयान्तं, तपसा षष्ठाष्टमादिना परिशोषितं कृशीकृतमांसरक्तं, प्रान्तं जीर्णं मलिनाद्यसारमुपधिर्वर्षाकल्पादिः, स एवोपकरणं धर्मशरीररोपष्टम्भहेतुरस्येति, तं प्रान्तोपध्युपकरणमुपहसन्ति अनार्यां म्लेच्छा इवाऽनार्याः साधुनिन्दादिना ॥४॥ ततश्चजाईमयपडिथद्धा, हिंसगा अजिइंदिया । अबंभचारिणो बाला, इमं वयणमव्ववी ॥५॥ व्याख्या-जातिमदेन द्विजा वयं, इति परिस्तब्धाः (पाठान्तरे-प्रतिबद्धा वा) हिंसकाः प्राणिघातकाः, अजितेन्द्रिया इन्द्रियवशाः, अत एवाऽब्रह्मचारिण अब्रह्मधर्मवादिनः। यत: ऋतुकाले विधानेन, तत्र दोषो न विद्यते ।[ ] तथा, "अपुत्रस्य गतिर्नास्ति"[ ] इत्यादि च । अत एव बाला इव बालाः, बालक्रीडानिभेष्वग्निहोत्रादिषु प्रवृत्तत्वात् । उक्तं च _अग्निहोत्रादिकं कर्म, बालक्रीडेव लिख्यते ॥[ ] इति । ते इदं वचनमब्रुवन् ॥५॥ कयरे आगच्छइ दित्तरूवे, काले विकराले फुक्कनासे । ओमचेलए पंसुपिसायभूए, संकरसं परिहरिय कंठे ॥६॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy