________________
द्वादशं हरिकेशीयाध्ययनम्
१७९ इति ध्यायन् जातजातिस्मृतिः स स्वं विमानवासं जातिमदं च दुष्टं भावयन् संविग्नः, साधुमूले धर्मं श्रुत्वा सम्बुद्धः, प्रव्रज्य विहरन् काशी गत्वा तिन्दुकोद्याने यक्षालये गण्डिकतिन्दुकं यक्षं तत्रस्थमनुज्ञाप्यास्थात् , यक्षोऽप्युपशान्तः, इतोऽन्यः कश्चिद्यक्षोऽन्यस्मिन् वने वसति, तत्स्थानेऽपि तत्रानेके साधवः स्थिताः सन्ति । स च तत्रागतो गण्डिकयक्षमूचेऽधुना त्वं कथं न दृश्यसे? सोऽवक् अमुं मुनि सेवे । सोऽपि तं साधुं दृष्ट्वोपशान्तो जगौ ममोद्यानेऽपि घना यतयः सन्ति, ततस्तौ तत्र गतौ, गण्डिकः साधूंस्तत्रस्थान् विकथादिपरान् दृष्ट्वोचे
इत्थीण कहित्थ वट्टइ, जणवयरायकहित्थ वट्टइ ।
पडिगच्छह रम्मं तिदुगं, अइ सहसा बहुमुंडिए जणे ॥१॥ [ उत्त. नि./गा.३२७] इत्युक्त्वा स स्वस्थानं समेत्य तं साधुं प्रतिमास्थमसेवत । अन्यदा कोशलिकस्य राज्ञो दुहिता भद्राख्या बहुतन्त्रा गन्धमाल्याद्युपेता तत्रागता । यक्षस्य प्रदक्षिणां कुर्वन्ती तं कालं विकरालं मुनि दृष्ट्वा सा थूच्चकार । यक्षो रुष्टस्तां परवशां चक्रे । पित्रादिदुःखे यक्षोऽवक् तस्या मुखेऽवतीर्य, यदनया यतिं प्रति थूत्कृतं तेन यति पतीयन्ती तां मुञ्चे । राज्ञा जीवत्वसाविति सा तस्मै दत्ता । रात्रौ महत्तरादिभिः सा तत्र यक्षालये आनीता, ताभिरनुज्ञाता च सा यक्षालयं प्रविष्टा । स मुनिस्तु प्रतिमास्थस्तां नैच्छत् । तदा यक्ष ऋषिमाच्छाद्य तां चोदुह्य स्वं दिव्यरूपमदीदृशत् पुनर्मुनिरूपं च । एवं सर्वां रात्रि तां विडम्बय प्रात: साधुरिमां नेच्छतीति यक्षो जगौ । सा विमनाः पितुर्गृहं यान्ती पुरोहितेन दृष्टा। राज्ञा पृष्टेन तेन पुरोहितेनोक्तं ऋषिपत्नी द्विजाय दीयते, तदा राज्ञा सा तस्मै दत्ता । सोऽपि तां स्वपत्नी कृत्वा सप्रियो यज्ञमारभतेति तत्सम्बन्धः ।
अथ सूत्रम्सोवागकुलसंभूओ, गुणुत्तरधरो मुणी । हरिएसबलो नाम, आसि भिक्खू जिइंदिओ ॥१॥
व्याख्या-स्वपाककुलसम्भूतश्चाण्डलकुलोत्पन्नः, उत्तरान् प्रधानान् ज्ञानादीन् गुणान् धारयतीत्युत्तरगुणधरः, प्राकृतत्वात् पूर्वापरनिपाते गुणोत्तरधरो मुनिः, हरिकेशो हरिकेशतया प्रतीतः स्वपाकतयेत्यर्थः, बलो नामासीत् भिक्षुः, भिनत्ति यथाप्रतिज्ञातानुष्ठानेन क्षुधमष्टविधं कर्मेति भिक्षुर्जितेन्द्रियः ।।११।।।
तथाइरिएसणभासाए, उच्चारे समिईसु य । जओ आयाणनिक्खेवे, संजओ सुसमाहिओ ॥२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org