________________
द्वादशं हरिकेशीयाध्ययनम् ॥
बहुश्रुतेनापि तपोयत्नः कार्य इति ज्ञप्त्यै तपऋद्धिवाचि हरिकेशीयाध्ययनमाह
प्रथमं तत्सम्प्रदाय उच्यते - मथुरायां पुर्यां शङ्खो युवराजा धर्मं श्रुत्वा दीक्षितो विहरन् गजपुरं गतः, तत्र भिक्षायै भ्रमन् अत्युष्णां मुर्मुरसमां तप्तवालुकां हुतभुग्ररूपामिव हुतवहाख्यां एकां रथ्यां प्राप्य, यस्तस्यां चलित स तदैव म्रियते, साधुना तामसञ्चारां दृष्ट्वा पुरोहितसुतोऽपृच्छीयं रथ्या किं वहति ? तेनापि दह्यतामयमिति दुष्टाशयेन वहतीत्युक्ते सोऽत्वरितं तस्यामेव ययौ । तत्तपः प्रभावात् सा रथ्या शीतीभूता, पुरोहितसुतो गवाक्षस्थस्तमत्वरितं यान्तं दृष्ट्वाऽहोऽयं महातपस्वीति विस्मितस्तमुद्यानस्थं नत्वोचे, भगवन् कथमस्माद्भवदवज्ञामहापापतोऽहं छुटिष्यामीत्युक्ते प्रव्रजेति तेनोक्ते स दीक्षितो निर्दोषां दीक्षां प्रपाल्य जातिरूपमदौ कृत्वा मृत्वा स्वर्गत्वा च्युतः ।
अथ गङ्गातीरे हरिकेशाधिपो बलकोष्ठाभिधानः स्मशानवृत्तिरन्त्यजो वसति, तस्य गौरीगान्धार्यभिधे द्वे भार्ये आस्तां । तयोर्गौर्याः कुक्षौ स आगतः, तदा सा वसन्तसश्रीकमाम्रं फलितं स्वप्ने दृष्ट्वाऽजागरीत् । स्वप्नपाठकैश्चानुपमपुत्रः फलमूचे । क्रमेण सुतोऽभूत् । प्राग्भवजातिरूपमदात् स कालो विरूपश्च जातः, स बलनामा बालोऽन्त्यजामामपि हसनीयो भण्डनशीलोऽसहनो विषतरुरिव द्वेष्य उद्वेगकृदवर्द्धत । अन्यदा पानगोष्ठीपराणां बन्धूनां मध्ये डिम्भैः सह भण्डचेष्टादिभिः कलहायमानः स तैर्बहिष्कृतः पार्श्वेऽस्थात् । तावत्तत्राऽहिर्निःसृतः, तदा तैः सहसोत्थाय सविष इति स हतः, क्षणेन दीपकसर्पो निःसृत:, ततस्तैः स निर्विष इति कृत्वा मुक्तः, बलेन तद् दृष्ट्वाऽचिन्ति यद्विषभृदहिर्हन्यते, दीपकोऽहिश्च मुच्यते, तर्हि सर्वः कोऽपि स्वदोषैरेव क्लेशभागिति भद्रकैरेव भाव्यं ।
भद्दएण व होयव्वं, पावइ भद्दाणि भद्दओ ।
सविसो हम्म सप्पो, भेरुंडो तत्थ मुच्चइ ॥ १॥ [ उत्त. नि. / गा. ३२६ ]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org