SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १७७ एकादशं बहुश्रुतपूजाध्ययनम् समुद्रस्य गाम्भीर्यसमाः समुद्रगाम्भीर्यसमाः, अभिभवबुद्ध्या केनापि दुराश्रयाः दुरासदा वा, अचकिता अत्रासिताः परिषहपरवाद्यादिना, तथा दुःखेन प्रधय॑न्ते न पराभूयन्ते केनापीति दुःप्रधर्षकाः, सुब्व्यत्ययात् श्रुतेन पूर्णाः, विपुलेन अङ्गाऽनङ्गादिभेदतो विस्तीर्णेन तायिनस्त्रायिणो वा, ईदृशा बहुश्रुताः क्षपयित्वा कर्म, गतिमुत्तमां मुक्ति गता यान्ति यास्यन्ति च, एकवचनप्रक्रमेऽपि बहुवचनं पूज्यताद्याप्तिज्ञप्त्यै ॥३१॥ इत्थं बहुश्रुतस्य गुणवर्णनां पूजामुक्त्वा शिष्योपदेशमाह तम्हा सुयमहिद्वेज्जा, उत्तमट्ठगवेसए। जेणप्पाणं परं चेव, सिद्धि संपाउणिज्जासि ॥३२॥ त्ति बेमि व्याख्या-यस्मादमी मुक्तिफलाः श्रुतगुणस्तस्मात् श्रुतमधितिष्ठेत् , अध्ययनश्रवणचिन्तनादिनाजश्रयेत् , उत्तममर्थं मोक्षं गवेषयतीत्युत्तमार्थगवेषकः । येन श्रुताश्रयणेन आत्मानं स्वं परं चान्यं तपस्व्यादिकं, एवः निश्चये भिन्नक्रमः, सिद्धि मुक्ति सम्यक् प्रापयेदेव, इति समाप्तौ, ब्रवीमीति प्राग्वत् ॥३२॥ इति बहुश्रुतपूजाख्यमेकादशाध्ययनमुक्तम् ॥११॥ ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy